पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे बद्धमुक्तादिनिष्ठस्य सम्भवात्स्याद्यवस्थितिः ॥ ३३ ॥ अनादिभावरूपैकचैतन्यविषयाश्रया । तप्त्वज्ञाननिवत्र्यात्रास्त्वविद्या तत्त्वविन्मता ॥ ३४ ॥ पूर्वस्मिन्नेोत्तरज्ञाननिवत्र्येऽतिप्रसञ्जनम् । न ज्ञानप्रागभावे वाऽनादिभावपदडयात ॥ ३५ ॥ अज्ञानभ्रमयोर्भाववैलक्षण्येऽपि युक्तितः । एकजीववादे नानाशाङ्कपङ्कप्रक्षालनं स्वप्रदृष्टान्तसलिलधारयैवास्ती ति भावः ॥ ३३ ॥ ॥ एकजीववादे सर्वकल्पनोपपत्तिः ॥ केयमविद्येत्यपेक्षायामाह--“ अनादीति ?' । रूप्योपा दानाज्ञानमप्यनादिचैतन्यश्रितत्त्वादनाद्येव उदीच्यं शुक्तयादिकं तु तद्वच्छेदकमिति न तत्राव्याप्तिः भावत्वं चात्राभावविलक्ष शत्वमात्रं विवक्षितं अत आरोपिताभावोपादानाझानेऽप्यभावविल क्षणत्वस्वीकारान्नाव्याप्तिरिति । न चाविद्याचैतन्यसम्बन्धेऽतिव्या प्तिस्तस्याप्यविद्यात्मकत्वाज्ज्ञाननिवर्यत्वे नातिव्याप्तिरिति तात्पर्या थैः ॥ ३४ अनादिभावपदयोः सार्थक्यमाह--“ पूर्वस्मिन्निति ' । अनादिपदस्योत्तरशानानिवत्र्यपूर्वज्ञाने भावपदस्य ज्ञानप्रागभाव झा नजन्यकार्यप्रागभावे चातिव्याप्तिवारकत्वेन सार्थकत्वादित्यर्थः ॥३५॥ ननुभ्रमेभावविलक्षणाज्ञानोपादानत्वं न घटते भ्रमस्य भावविलक्षणत्वे उपादेयत्वायोगात भावत्वे च भावोपादानकत्वनियमादित्याशङ्क समाधत्ते–“अज्ञानेतेि' त्रिभिः । एतदुक्तं मवति न हि भाव त्वमुपादानत्वे उपादेयत्वे वा प्रयोजकं आत्मनि तददर्शनातू किन्त्व