पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयमिथ्यात्वलक्षणकथनम् । नित्यत्वं स्वप्रकाशत्वं विभुत्वं ब्रह्मणस्तथा ॥ १३ ॥ पूर्णत्वमपरिच्छिन्नतया दिकालवस्तुभिः । निर्मिकतया सर्वधर्भाभावस्य सम्भवात् ॥ १ ४ ।। तत्वज्ञाननिवत्त्वं मिथ्यात्वं जगतोऽस्तु वा । ज्ञानप्रयुक्तावस्थानसामान्यविरहस्य यत् ॥ १५ ॥ प्रतियोगित्वमेवैतन्निवत्र्यत्वं मतं यतः । हेत्वात्मना स्वरूपेण चावस्थानं द्विधा मतं ॥ १६ ॥ ब्रह्मज्ञानप्रयुक्तेयं विरहप्रतियोगिता । न घटे मुद्रापातात्सा भवेद्वेत्ववस्थितौ ॥ १७ ॥ त्वस्य ब्रह्मस्वरुपत्वमेवेत्यभिप्रेत्याह-* मिथ्यात्वेत्यडेन । 'जग तीमिथ्यात्धव्याख्यानेन तदधिष्ठानस्य श्रह्मणो नित्यत्वस्वप्रकाशत्वा दिकमपि व्याख्यातमित्याह-* नित्यत्वमिति । ' कालपरि च्छेदाभावोनित्यत् रप्रकाश्यत्वाभावो हि खप्रकाशत्वं, दशपरि च्छेवाभावो विभुत्वं, वस्तुपरिच्छेदाभाव: परिपूर्णत्वमित्यर्थः ॥ १३ ॥ भाघरूपधर्मनाश्रयत्वेपि ब्रह्मणः सर्वधर्माभावरूपत्वेन न काप्यनु पपतिरित्याह--* निर्द्धर्मकतयेति ? ॥ १४ ॥ ज्ञाननिवत्र्यत्वं मिथ्यात्वमिति लक्षणान्तरमाह-* तत्त्वज्ञानेति । शाननिवत्यें पूर्वशानेऽतिव्याप्तिर्मुद्रपातादिनिवत्यें च धटादावव्या प्तिरित्याशङ्कयाह-' ज्ञानप्रयुक्तेति । ' ज्ञानप्रयुक्तावस्थितिसा मान्यविरहप्रतियोगित्वं हि ज्ञाननिवत्र्यत्वं, अवस्थितिद्वेधा स्वरूपेण कारणात्मना च सत्कार्यवादाभ्युपगमात् तथा च मुद्ररपातेन घटस्य खरूपेणावयिातिविरहपि कारणात्मनाऽवस्थितिविरहाभावाह्मज्ञान प्रयुक्त एव स इति नातीतधटादावव्याप्तिरिति श्रयाणां समुदि ताथै; ॥ १५ ॥ १६ ॥ १७ ॥