पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे नाद्वैतहानिने वास्ति प्रपञ्चस्यापि वस्तुता ॥ ९ ॥ अतात्विकोनिषेधोऽपि व्यावहारिक इष्यते । विरोधस्तल्यसत्वेन विश्वतत्प्रतिषेधयोः ॥ १० ॥ कचित्प्रतीत्यनर्हत्वमत्यन्तासत्वमुच्यते । न तथात्वं प्रपञ्चस्य स्वाधिष्ठाने प्रतीतिः ॥ १ १ ।। अतो न तुच्छतापत्तिः शुक्तिरूप्यवदस्य तु । अनिर्वाच्यस्य मिथ्यात्वं सिध्धमारोपितत्वतः ॥ १२ ॥ मिथ्यात्वाभावसत्वस्य ब्रह्मरूपत्वमिष्यते । ननु तात्विकाभावप्रतियोगिनः प्रपञ्चस्य तात्विकत्वापति: स्याद्वि त्यत आह -* नो वेति । ' तात्त्विकाभावप्रतियेगिनिं शुक्तिरज तादौ कल्पिते व्यभिचारादिति भावः ॥ ९ ॥ अन्नात्विकत्वेपि न प्रातिभासिकः किन्तु व्यावहारिक -“अतात्विक इति’’ इत्याद्द ननु तर्हि निषेधस्य बाध्यत्वेन तात्विकसत्त्वाविरोधित्वादर्थान्तरं ने त्याह-“ विरोध इति । ' निषेधस्य बाध्यत्वं पारमार्थिकसत्वा विरोधित्वे न तन् किन्तु नित्रेध्यापेक्षया न्यूनसत्ताकत्वं प्रकृते तु ल्यसत्ताकत्वात्कथं न विरोधित्वमित्यर्थः ॥ १० ॥ नन्वेवमत्यन्तास त्वापात: प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं हि अन्यत्रा सत्वेन संप्रतिपक्षस्य घटादेः सर्वत्र त्रैकालिकनिषधप्रतियोगित्व पर्यन्तं अन्यथा तेषामन्यत्र सत्वापातातू न हि तेषामन्यत्र सत्ता सम्भवतीति तव सिद्धान्तस्तथा च कथमसद्वैलक्षण्यमित्याशङ्काह--

  • कचिदित्यादि द्वाऽभ्यां । अयमर्थ: सर्वश्र कालिकनिषेध

प्रतियोगित्वं यद्यपि तुच्छानिर्वचनीययोः साधारणं तथापि काचिद् प्युपाधौ सत्वेन प्रतीत्यनर्हत्वमत्यन्तासत्वं तच शुक्तिरुप्ये प्रपञ्चे च बाधात्पूर्वं नास्त्येवेति न तुच्छतापत्तिरिति ॥ ११ ॥ १२ ॥ अधिकरणातिरिक्ताभावानभ्युपगमेनोक्तमिथ्यात्वाभावरूपसल्य