पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे संप्रयोगादिजन्यत्वाध्यासस्तत्रैक बाध्यते ॥ ८ ।। व्यावहारिकसत्वेन व्यावहारिकबाधवत् । प्रातिभासिकबाधेोऽपि ज्ञातसत्वेन सम्भवेत् ॥ ९ ॥ जीवब्रह्मविभागादेरनादित्वेन नेष्यते । दृष्टिसृष्टित्वमेवं न स्यान्मुक्तस्य पुनर्भवः ॥ १० ॥ । सम्भदावभास इति स्वरुपलक्षणां तु दृष्टि सृष्टिपक्षेप्यविरुद्ध मिस्य भिप्रेत्य परिहरति--* प्रतिकर्मेति ? । न हीदमंशावच्छिश चैतन्यं न वस्तु न वा मिथ्यारूप्यस्य तेन सह न सम्भेदावभास इति भावः ॥ ८ ॥ ननु रूप्यादिबाधस्याऽऽपि दृष्टिष्टित्व तेन रूप्यादेर्मि थ्यात्वासिद्धिरित्याशङ्क बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयो जधकं न त्वधिकसताषकत्वं व्यावहारिकोण व्यावहारिकबाधवत्प्रा तिभासिकेन प्रातिभासिकबाधाविरोधादित्यभिप्रेस्याष्-* व्याव हारिकेति ? ॥ ९ ॥ ननु सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेनाविद्यमान तया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापतिः स्यादिति तत्राह--* जीवेति ?” । न च सुझै प्रति सैस्कारादेरप्यभावेन तस्य पुन: प्रबोधायोग इति शङ्कां, कारणात्मना संस्कारावस्थितेः सत्वादिति भावः ।। १० । ननु मोक्षस्य इगन्यत्वेन स्वाममोक्षवदूद्व ष्टिसृष्ट्यापतिरित्यत आह * ब्रह्मति ?' । चैतन्यमात्रस्य