पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्टिसृष्टशुपंपतिः । स्थायित्वस्वीकृतेस्तत्र न बौद्वमततुल्यता प्रतीतिमात्रसत्वेपि कर्मज्ञानादिचोदना । प्रमाणं स्वाऽप्रकार्यादिभावबोधकवाक्यवत् ॥ ६ ॥ स्वाप्तवाक्तद्विचाराभ्यां विशेषो वेदवाक्यगः । विषयाबाधसद्भावाज्ज्ञातसत्वेपि सम्भवेत् ॥ ७ ॥ प्रतिकर्मव्यवस्थापि सिद्येन्मन्दाधिकारिगा । रुपपादितैवेत्याशयेनाह-“ सापीति ?” । तत्र विषयजाले का रणात्मना स्थायित्वखीकृतेर्न बौद्धमततुल् तीतिमात्रशरीरत्वेन नियतकरणाजन्यत्वे श्रुतिषु स्वर्गद्यर्थ ज्यो तिष्टोमादिविधेर्बह्मसाक्षात्कारार्थ श्रवणादिविधेराकाशादेर्वाय्वा दिहेतुत्वस्य चवोक्तिरयुक्तत्याशङ्का स्वाप्मकार्यकारणभावबोधकवा षयवदुपपत्तेमैवमित्याह-* प्रतीतिमात्रेति ? ॥ ६ ॥ न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च खप्तवाक्यतन्मीमांसा तुल्यतापत्तिः, विषयबाधाबाधाभ्यां विशेषेोपपत्तेरित्याह-“स्वा वागिति ? । एतेन तृप्त्यर्थं भोजने परप्रत्यायनाद्यथै शब्दादौ च प्रवृत्तेरयोगेन स्वप्रक्रियाव्याघात इति निरस्तमिति भावः ॥ ७ ॥ अथैवं घटादेः स्वशानात्पूर्वमसत्वन प्रतिकर्मव्यवस्थानुपपत्ति: अ धिष्ठानस्यापि शुक्तीदमंशस्य रूप्यवदिदं रूप्यमिति झानात् प्रागस श्वेन संप्रयोगादिहेतुत्रयजन्यत्वस्याध्यासतटस्थलक्षणस्य सत्यवस्तुनो मिथ्यावस्तुसम्भेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इत्याशङ्क प्रतिकर्मव्यवस्थाया: सैप्रयोगादित्रयजन्यत्वरूपाध्यासतटस्थलक्ष णस्य च भन्दाधिकारिविषयत्वात् । सत्यस्य वस्तुनो मिथ्यावस्तु