पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जगन्मिथ्यात्वे श्रुतिस्मृतिसूत्रविरोधपरिहारः । विरोधतन्निरासेोक्तिकव्यवहारिकसत्त्वतः ॥ ७७ ।। अध्यस्तेऽपीन्द्रजालादावैन्द्रजालिकपूरुषे । ईक्षापूर्वकस्रष्टत्वं दृष्टं स्यात्प्रकृते तथा ॥ ७८ ॥ मिथ्या स्वाप्रथादीनां सृष्टिरुच्यत आगमे । अध्यस्तस्याऽपि सर्षादेर्भयकम्पादि हेतुता ॥ ७९ ॥ पारमार्थिकदृष्ट्या तु न च शङ्का न चोत्तरं । तदनन्यत्वमित्यत्र श्रुतेहदै तथेक्ष्यते ॥ ८० ॥ मायावेिन इवेशस्य स्वाभासस्यापि देहिनः । लीलया भ्रामणं तेन न भ्रान्त-त्वं महेशितुः ॥ ८ १ ॥ (१)ण तु क्रमोऽन उपपद्यते चेति सूत्रे ‘पृथिव्यप्सु प्रलीयते'इत्यादि स्मृतौ च पृथिव्यादीनामबादौ लयोक्तिरित्यादि सर्वमप्ययुक्त म्यात् न हि कल्पिते तत्तद्विरोधशङ्का तन्निराकरणं च युक्तमित्याशङ्का प्रप श्वस्य कल्पितस्यापि व्यावहारिकसत्वाऽयुपगमेन तद्दशायां विरोध शङ्कतत्परिहारयो रुचितत्वादिन्द्रजालाद्भावध्यस्तेप्यैन्द्रजालिकादेरी श्रुत्या प्रातपादना ञ्चाध्यस्तस्यापि सर्पस्य भयकम्पादिजनकत्ववद्वाय्वादीनां तेज आदि जनकत्वमप्युपपनं ‘तदभि(२)ध्यानादेव तू तलिङ्गात स इतेि' सूत्र च तत्तद्भावापन्नस्य ब्रह्मण एव कारणत्वाभिधानादबादौ पृथिव्या दिलयोक्तिरपि तत्तद्भावापन्नचैतन्ये व्याख्येयेति नाधिष्ठानातिरिक्त लयोक्तिः वैषम्यनेघृण्यप्रयोजनादिशङ्कपरिहारादिकं उपासनाव स्थायां ‘भोत्प्रका(३)पत्तेरविभागश्चत्स्यालोकवदि'त्यापाततः परिणा भचादाऽभ्युप्रगपमेन ‘तदनन्यत्व(४)मारम्भणशब्दादिभ्य’ इति तु वि वर्ततवादेन परमसिद्धान्तदशायां न शङ्का न चोत्तरं मायाविन इवश्व रस्य स्त्रप्रतिबिम्बभूतजीवभ्रमयितृत्वेन सर्वेविरोधनिरासोपपनेमैव मिथ्यात्वेपीत्यादि ८८ ॥ ७८ ॥ ७९ ॥ ८० ॥ ८१ ॥ ( १ । त्र० सू० २ १ ३ । १४ । ( ) ब्र० सू० २ । १ । १२ । ( २ ) ( ४ ) ० ५३

० २ । ३