पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० संब्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे अन्थान्तःकरणाध्यासे त्वविद्या सर्वदोषभूः ॥६७॥ अधिष्ठानापरोक्षत्वं कारणं सकलभ्रमे । चैलन्यस्थापरोक्षत्वं स्वप्रकाशतया स्वतः ॥ ६८ ।। अध्यस्तत्वादविद्यायाः स्वावच्छिन्ने विदात्मनि । तेनैव साक्षिणा तस्या अपरोक्षत्वमिष्यते ॥ ६९ ॥ योः । कार्यकारणभावेन मिथ्यात्वमुभयोः समं ॥ ७० ॥ वेदान्तवाक्यज्जं ज्ञानं मतं स्वपरवाधकं । नानवस्थाऽस्ति दृश्यत्वमात्रबाधेऽपि बाधकं ॥ ७१ ॥ धादोषजन्यत्वान्नाप्रामाण्यस्य स्वतस्त्वं नाप्यनवस्थापत्तिरित्यभि प्रेत्याह--'अनादित्वेनेति' ॥ ६७ ॥ ननु देहेन्द्रियादिकं विना कथमन्तःकरणाध्यास इत्यत आह-“अधिष्ठानेति” । अधिष्ठाना शुक्याद्यवच्छिन्नचैतन्यं तत्र तदपरोक्षतार्थे देहेन्द्रियाद्यपेक्षा प्रकृते चाविद्यावच्छिन्नचैतन्यमधिष्ठानं तत्र चैतन्यस्य स्वप्रकाशत्वेना विद्यायाश्च तदध्यस्तत्वेन तनैव साक्षिणाऽपरोक्षत्वात्कुत्र देहेन्द्रि याद्यपेक्षा स्यादिति द्वयोरर्थ: ॥ ६८ ॥ ६९ ॥ अविद्याप्रपञ्धयी विषमसत्ताकत्त्वमित्याह-“ समसत्ताकतेति' ॥ ७० ॥ ननु थाधकज्ञानं सत्यमेव चवक्तव्यं अन्यथा बाधपरम्परयाऽनवस्थापति रित्याशङ्का बेदान्तवाक्यजन्यश्धरमांचत्तवृत्ते कतकरजोऽभ्यायेन खपरयाधाकतयाऽनवस्थाया अभावान्मैवमित्याह--* वेदान्तेति *** ॥ ७१ ॥ यद्यपि बाधकशानं वृत्युपरक्तचेतन्यरूपं स्वतः सत्यमेव