पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिथ्यात्वें प्रतिकूलतर्कनिरासोऽप्रामाण्यस्वतस्त्वनिरासश्च । ४९ सामान्य-त्वात्तथा पूर्णानन्दत्वादेर्विशेषता ॥ ६३ ॥ आनन्दाद्यात्मना तस्याऽऽवृतस्याऽपि चिदात्मनः । सढूपेण प्रकाशस्य सम्भवान्न क्षतिः कचित् ॥६४॥ य(१)त्प्रसादादविद्यादि सिद्धयतीव दिवानिशं । तमप्यपन्हुतेऽविद्या नाज्ञानस्यास्ति दुष्करं ॥ ६५ ॥ विश्वोपादानविषयाज्ञानस्य श्रवणादिजम् । वृत्तिरूपं विरोधेि स्याज्ज्ञानं न तु चिदात्मकं ॥६६॥ अनादित्वेन चाविद्याध्यासे दोषानपेक्षता । विशेषः यदधिष्ठानं खत एव सदात्मना भाति अध्यसनीयं तु त त्सम्बन्धादिति भावः ॥ ६३ ॥ :६४ । नन्धर्वाधिष्ठानतिरोभावं विना पपत्तेरित्याशङ्गेखकस्यैवानन्दात्मना तिरोहितस्य सदात्मना प्रका शासम्भवोऽस्तीत्यत्र वार्तिकवचनमुदाहरति-“यत्प्रसादादिति ' ॥ ६५ ॥ विश्वोपादानगेचरराज्ञानस्य श्रवणादिजन्यमात्ममात्रवि षयक वृतिरूपं ज्ञानं विरोधि न तु चिदूपं खतःसिद्धशानं, भ्रमवि रोधिनश्च वृतिरूपस्य ज्ञानस्येदानीमभावोऽस्त्येवेत्याह -- * विश्वे ति ॥ ६६ ॥ मिथ्यात्वे प्रतिकूलतर्कनिरासः ॥ ननु दोषं विना भ्रमखीकारे स्यादप्रामाण्यस्य खतस्त्वापतिः दोषजन्यत्वस्वीकारे तु दोषस्याप्यध्यसनीयत्वेनानवस्थापत्तिरित्या