पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असत: साधकत्वं मिथ्यात्वहेतोरप्रयोजकत्वनिरासश्च । ४१ न केवलमतोप्यर्थो हेतुरस्ति मृषात्मकः ॥ ३३ ॥ नह्यर्थगतमौत्कृष्ट्यं विना ज्ञानं सुखादिके । शक्रेो-त्यौत्कृष्ट्यमाधातुमितोऽर्थस्तत्र कारणं ॥ ३४ ॥ न चाप्रयोजकं मिथ्यात्वानुमानं यतोऽन्यथा । दृग्दृश्ययोर्हि सम्बन्धो दृश्यस-त्वे न सम्भवेत् ॥३५॥ जनकत्वेऽतिप्रसङ्गातू तथा च मिथ्यार्थावच्छिन्नत्वाकारेण ज्ञानस्य भिपथ्यात्वात जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण स त्वमप्यसत्त्वान्नातिरिच्यते ऽनुपयोगादिति तस्मात्सद्धिवित्तं साध कमिति सिद्धमिति ॥ ३३ ॥ ३४ ॥ ॥ असतामपि साधकत्वे युक्तिप्रदर्शनम् ॥ ननु मिथ्यात्वानुमानमप्रयोजक सत्यत्वेऽपि दृश्यत्वोपपत्तेरेि स्याशङ्का दृग्दृश्यसम्बन्धानुपपतेर्न हि ज्ञानं ज्ञेयासम्बद्धमेव प्रकाश कमतिप्रसङ्गातू नापि संबद्ध आत्मखरूपस्य तद्गुणस्य वा ज्ञा नस्य ज्ञेयेन संयोग(१)समवाययोरभावादन्यस्य चानाध्यासिकस्य सम्बन्धस्याभावान्मैवामित्यभिप्रेत्याह-' नचेति ? सान । आध्यासिक एव सम्बन्धो दृग्दृश्ययोरतो मिथ्यात्वानुमानं नाप्रयो जकमित्यर्थः ॥ ३५ ॥ स्यादेतत्सर्वस्यापि दृश्यस्य ब्रह्मात्मकदृग ( १ ) गुणांदी नात्मनः संयोगः द्रव्येऽपि स्यातौतत्वादिकाल उत्पत्ति काले वा न स: न चीत्पति काले संयोगी मास्तु अतैौतादौ तदीयभूचमऽवस्थासंयोगाद्दारकः सम्बन्ध एव गुणादावपि द्रव्यद्दारीति वाच्यम् चुटादैर्निरवयवत्वेन तच तद्वगुणादौ च तदसम्भवात् सा . बयव एव संयोर्गस्य खीकारान्निरवयवैऽवच्छेदकत्वा सन्भवात् दिकालविशेषणां तु वटा दौ सम्बन्ध य दैशिकव्याप्य तितया दैशिकाव्याप्यक्तिखभावसंयीगादावबच्दकत्वाऽस भवात् आत्मगुणत्वन्तु न ज्ञानस्य सम्भवति तत्र मनस एवोपादानत्वादन्यथाऽऽत्मनस्तची पादानवं मनसी नि नित्तत्वमित्थव ग रत्रात् आत्मरूपज्ञानस्य जगदुपादानस्यं समवायी नातीतादौ सम्भवति न वाऽनादौ इति ध्येयम् ।