पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ १ परिच्छेदे वर्णरोपितदीर्घत्वाद्यपि स-त्यार्थबोधकं ॥ ३१ ॥ मायाकल्पितहस्त्यादिर्भयकम्पादिकारणं । अतो न तात्विकं सत्वं साधक-त्वे प्रयोजकं ॥ ३२ ॥ अर्थावच्छिन्नमेवास्ति ज्ञानं सर्वत्र कारणं । दीर्घत्वादीनां च नगो नागइत्यादावर्थविशेषप्रत्यायकत्वं दृष्ट मित्यर्थः ॥ ३१ ॥ मायाकल्पितहस्त्यादे रज्जुसपदिश्च भयादिहेतुत्वं सवितृसुषि रस्य च मरणस्सूचकत्वं शङ्काविषस्य च मरणहेतुत्वं दृष्टं तथाऽत्रापि स्यादेवेत्याह-* मायांत | ॥ ३२ ॥ ननु तत्र शाङ्केव भयमु त्पाद्य धातुव्याकुलतामुत्पादयतीति सैव मरणहेतुर्नतु शङ्कितं विषम पि, एवं ‘पु(१)रुषं कृष्णं कृष्णदन्तं पश्यती'त्यादिश्रुतबलात्खाप्तदर्श नस्यैव शुभादिसूचकत्वं, एवं सवितृसुषिरमायागज़ादीनामपि ज्ञा नमेव तत्तदर्थक्रियाकारि न तु तदर्थोऽपि तथा च सर्वत्रोदाहृतस्थलेषु ज्ञानमेव हेतुः तञ्च खरूपतः सत्यमेव अन्वयव्यतिरेकावपि.शात स्यैव कारणतां ग्राहयत: न हि सन्निहितमपि सर्पमजानानोबिभे तीत्याशङ्काह–“अर्थवच्छिन्नमितिः' । एतदुक्तं भवति स्व झे जागरे वोत्कृष्टकलधौतदर्शनादुत्कृष्टं सुखं उत्कृष्टसपदिदर्शना वोत्कृष्टभयादि दृश्यते विषयस्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यातू, न च ज्ञानप्रकर्षादेव तत्प्रकर्ष: ज्ञानेपि विषयगतप्रकर्ष वि हायान्यस्य प्रकर्षस्याभावातू । अथ ज्ञानगता जातिरेव प्रकर्ष: न, चा क्षुषत्वादिना सङ्करप्रसङ्गातू विषयप्रकर्षेणैवोपपत्तौ चाक्षुषत्वादि व्याप्यजायड्रकारे गौरवान्मानाभावाच, किं च झानस्य भयाः नकत्वे सर्पद्यवच्छिन्नत्वमेव कारणतावच्छेदकमास्थयं ज्ञानत्वेन ( १ ) ऐतरेथा रथधके ३ । १ । ४ । ७ । १५ ।