पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असतौ हेतुसाध्यपक्षादीनां साधकत्वोपपत्ति: ।. ३९ पक्षादीनां हेि मिथ्यात्वबोधुनेऽपि न नः क्षतिः । साधकस्य च मिथ्यात्वे न क्षतिः सत्वसाधने ॥ २९ ॥ प्रतिबिम्बस्य बिम्बैकसाधनत्वमिहेक्ष्यते । तस्य बिम्बात्मना सत्वे मिथ्यात्वं तु स्वरूपतः ॥३०॥ शुभादिसूचकत्वं हि स्वाश्मार्थस्यासतोऽपि च । ननु सत्वस्साधकानां मिथ्यात्वसाधकानुमानेऽभ्य: प्राबल्यं, मि थ्यात्वसाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वाबोधने सर्वमि थ्यात्वासिद्धि: तद्धोधने परस्परव्याहृतिराश्रयासिद्धयादिकं चेत्या शाङ्क मिथ्यात्वसाधकप्रतिशा द्युपनीतपक्षादीनां मिथ्यात्वबोधनेपि व्याहत्यभावातू प्रतिज्ञादिभिस्तेषां त्रिकालाबाध्यत्वरूपसत्त्वाप्रतिपा दनान्मैवमित्यभिप्रेत्याह-* पक्षादीनामिति ?' । मिथ्यात्वस्य मिथ्यात्वेपि तत्वावेदकश्रुतिवेद्यत्वोपपत्ति: सत्त्वेन सत्त इव मिथ्या त्वेन मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोधातू एकांशे तत्त्वाचेद् कत्वाभावे प्यैशान्तरे तत्वावेदकत्वोपपत्तेरिति पुरोरितमित्यर्थः । ननु साधकत्वान्यथानुपपत्या परमार्थसत्वमायाति परमार्थसतएव साधकत्वादित्यत आहः -- * साधकस्येति । परमार्थसत्वस्य

ज्ञाताज्ञातस्साधारण व्यावहारिकस्त्वमेव तन्त्रं तश्च ब्रह्मझानेतरराबा ध्यत्वमेवेति न काविद्धानिः साधकत्वस्यति शेषः ॥ २९ ॥ नेदम दृष्टचरं लोकं प्रतिबिम्बस्य मिथ्यात्वेऽपिबिम्बसाधकत्वं दृष्टमित्याह--

  • प्रतिबिम्बस्येति ? । प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति

तस्य बिम्बात्मना सत्त्वेपि प्रतिबिम्बाकारेणासत्वातू परमार्थसत्वं न साधकत्वे प्रयोजकमित्यर्थः ॥ ३० ॥ एवं खाझार्थस्याऽसतोऽपि शुभा

  1. शुभसूचकत्वमित्याह-* शभादीति ' ' । वणरोपितङ्कस्खत्व