पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ सव्याख्याद्वैतसिद्धिसिद्धान्तस्सारेः । [१ परिच्छेदे अप्रामाण्यप्रसङ्गोऽपि नसत्यत्वश्रुतेर्मम । अतप्त्वावेदकत्वेन स्यादनिष्टकरो मनाक् ॥ २५ ॥ तात्पर्येण तु सर्वासां श्रुतीनां सम्मतं समं । अस्मत्सिद्धान्तगं तत्त्वावेदकत्वं समन्वयात् ।। २६ ।। अनन्यशेषमिथ्यात्वश्रुतेः स्वार्थपरत्वतः । अन्यशेषतया विश्वसल्यत्वश्रुतिरन्यगा ॥ २७ ॥ । तत्परत्वेन चाद्वैतश्रुतेः प्राबल्यमिष्यते । ततो न तद्विरोधेन सत्यं विश्वं वदेछ्रुतिः ॥ २८ ॥ ननु प्रपञ्चसत्यत्वश्रुतरप्रामाण्यप्रसङ्ग इत्याशङ्का निराचष्ट

  • अप्रामाण्यांते द्वाऽभ्यां । अतत्वावेदकत्वरूपाप्रामाण्य

स्यावान्तरतात्पर्यमादायेष्टत्वात, परमतात्पर्येण तु सर्वश्रुतीनामपि तत्वावधदकत्वं समं, प्रातिभासिकव्यावृत्तस्य व्यावहारिकस्य तद्व तिनत्प्रकारकत्वादिरूपस्य निराकर्तुमशक्यत्वात् स्लांव्यवहारिकं प्रामाण्यमव्याहृतमेवेति तात्पर्यार्थः ॥ २५ ॥ २६ ॥ ननु. यदि सत्व श्रुतिः प्रत्यक्षप्राप्त्यर्थत्वान्न स्वार्थपरा तर्हि मिथ्यात्वश्रुतिरपि त द्विरुद्धार्थत्वात्स्वार्थपरा न स्यातू तत्प्राप्तितद्विरोधियोस्तात्पर्याभा वहेत्वोरुभयत्रापि समत्वादित्याशाङ्काह-* अनन्येत ' । प्रत्यक्षापेक्षया चन्द्राधिकपरिमाणबोधकागमस्येव मिथ्यात्व बोधकागमस्य बलचत्वेन प्रत्यक्षप्राप्तानुवादिसत्वश्रुत्यपेक्षयाऽपि ब लवत्वात्तू प्राप्तार्थाप्राप्तार्थयाविरोध प्राप्तार्थस्याऽप्राप्तविध्यर्थत्वेना यशेषत्वनियमादप्राप्तार्थस्यैवानन्यशेषत्वेन च बलवत्वात् अन न्यशेषमिथ्यात्वश्रुतिविरोधान्न प्रत्यक्षागृहीतत्रिकालाबाध्यत्वरूप - सयत्वपरा विश्वसत्यत्वश्रुतिरिति । अद्वैतश्रुतेश्च प्राबल्ये निरव काशत्वतात्पर्यवत्वादिकमेव प्रयोजकं नान्यदिति द्वयोस्तात्प ॥ विश्वमिथ्यात्वानुमानस्याऽऽगमादिबाधेोद्धारः ।