पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतश्रुतस्तात्पर्यलिङ्गोपेतत्वोपपत्तिः । तत्रापि त्रिविधं लिङ्गमर्थनिष्ठं प्रमावहं ॥ ११ ॥ अज्ञातत्वादिभेदेन निर्विवादं सतां मतं । शब्दनिष्ठं तु त्रिविधं प्रसक्त्यन्तरवारकं ।। १२ ।। उपक्रमोपसंहृत्योरैक्यरूप्यमिहादिमं । अभ्यासश्चार्थवादश्च निर्विवादमिति त्रयं ॥ १३ ॥ अज्ञात-त्वं मतं मानान्तरासिद्धे चिद्दद्वये । सप्रयोजनता मोक्षहेतुधीविषयत्वतः ॥ १४ ।। अबाधित-त्वं सन्दिग्धं तच्च निर्णीयते स्फुटम् । अन्यथाऽनुपप-त्या चव गतिसामान्यतस्तथा ॥ १५ ॥ न हि विश्वनिषेधात्मा द्वैतं स्याव्द्यावहारिकं । येन तत्र श्रुतेः सिद्येत्प्रामाण्यं व्यावहारिकं ॥ १६ ॥ अतस्तत्र श्रुतेरस्ति प्रामाण्यं तात्विके परं । व्यावहारिकसत्य-त्वं द्वैते तत्र श्रुतेरपि ॥ १७ ॥ गीयते एतत्सर्वमनसिनिधायाह-“ तात्पर्य त्यादिपञ्चभिः ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ ॥ अद्वैतश्रुतेस्तात्पर्यलिङ्गोपेतत्वोपपत्तिः । अद्वैतश्रुनेस्तात्विकं प्रामाण्यं तात्विकवस्तुविषयत्वातू । द्वैतश्रुनेस्तु व्यावहारिकं व्यावहारिकवस्तुविषयत्वादिति व्यवस्थां विषयभेदेन दर्शयति-“ नहीति सार्द्धद्वयन ॥ १६ ॥ १७ ॥ परस्पर विरुद्धयोर्द्धयोस्तात्विकत्वं न सम्भवतीत्याह-* मिथ ?’ इत्य