पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ सव्याख्याद्वैतसिद्धिसिंडद्धान्तसारे । [ १परिच्छेदे शब्दबाध्यं न मिथ्या-त्वं शब्दंतात्पर्यमद्वये । तन्न सिद्धेचेद्यत: सर्वविश्धमिर्थयात्वमन्तरा ॥ ९ ॥ विश्धं सत्यमिति श्रौतं वाक्यं स्तुति परं मतं । लैकालिकनिषेधोऽस्याभिमतोऽस्त्यडयश्रुतेः ॥ १० ॥ तात्पर्यलिङ्गसंयुक्ता श्रुतिरद्वैतत्परा । भूय' इत्यादिश्रुतिभिर्विश्वसत्यत्वप्रतिपादनादित्याशङ्का श्रुतेस्तत्र ता त्पर्याभावान्मैवमित्याह-“शब्दबाध्यमांते' । एतदुक्तं भवति

  • विश्वं सत्यं मधचानायुवो' रित्यादिश्रुतिवाक्यस्य स्तुतिपरतया

नास्य विश्वस्य सत्यत्वे तात्पर्यम् । * यचिकेतसत्यमित मोध " मित्यादिश्रुतेरिन्द्रस्तुतिपरतया न विश्वसत्यत्वे तात्पर्यम् । “या- याथातथ्यतोऽर्थानिति ' श्रुतिर्न तत्सत्यत्वे प्रमाणं प्रत्यक्षसि। द्धानुवादकत्वातू त्रैकालिकसत्वनिषेधश्रुतिविरोधेन विश्वंस त्यत्वश्रुतेस्रकालिकसस्वपरत्वाभावो निश्चीयते । नच वैप रीत्यमेव । किन्न स्याद्विनिगमकाभावादितिवाच्यं तात्पर्यन्यथा सुपपत्तिगतिसामान्यानामेव विनिगमकत्वादिति ॥ ९ ॥ ॥ १० ॥ अद्वैतश्रुतिर्हि षड्विधलिङ्गतात्पर्योपेता, तत्र त्रिविधं तात्प यैलिङ्गं प्रामाण्यशरीरघटकमर्थनिष्टं अज्ञातत्वमबाधितत्वं प्रयोज नवत्वं च, त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारक उपक्रमोपसंहार योरैक्यरूप्यं अभ्यासोऽर्थवादश्रेति, तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः सर्वासामेवोपनिषदामेवं वृत्तत्वातू मानान्तरासिद्धतया मोक्षहतुज्ञानविषयतया चाज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव अबाधितत्वमात्रं सन्दिग्धं तञ्चान्यथानुपपत्तिगतिसामान्याभ्थां नि