पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिथ्यात्वे विशेषानुमानोपसंहारः । एवमन्येऽपि मिथ्यात्वे विपश्चिद्भिर्यथोचितं । प्रयोगा ऊहनीयाः स्युर्वादध्वान्तप्रहाणये ॥ ७ ॥ हेतवोभीष्टसिद्धयर्थ सम्यञ्चो बहवश्च नः । अल्पाः परस्य दुष्टाश्च ज्ञातव्या युक्तिभिर्बुधैः ॥ ८ ॥ एवमन्येऽपि प्रयोगा ऊहनीयाइत्याह -- “ एवामात ' ३३ ( १ ) ऋक्संहितायां छितौयाऽकेि ७ अध्याये ३ वर्गे ऋक् ३ । ( २ ) ऋकसंहितायामष्टमाटके १ अध्यथे १७ वर्गे ऋक् १ . । एतत्पटात्यन्ताभावः एतत्तन्तुनिष्ठः एतत्पटानाद्यभावत्वात् एत त्पटान्योन्याभाववत्तू, तन्तुनाशाजन्यपटनाशास्य कदापि तन्तुवृत्तिता नास्तीति तत्र व्यभिचारवारणायानादिपदं, यस्य पटस्याश्रयधि भागेन नाशास्तदत्यन्ताभावस्य पश्क्षत्वे त्वनादिपदमनादेयमेव, अत्र चैतत्पटप्रतियोगिकात्यन्ताभावत्वावच्छिन्नस्थ पक्षीकरणाञ्च सम्ब न्धान्तरेणात्यन्ताभाधमादायांशत: सिद्धसाधनै पक्षतावन्छेदका न्तुशाब्देन च पटोपादानकारणमुक्त तत्र च प्राग्भावस्य सत्वांतू न तेन व्यभिचारः । यद्धा समवायसम्बन्धावच्छिन्नोऽयमेतत्पटात्य न्ताभावः एतत्तन्तुनिष्ठ: एतत्पटप्रतियोगिकात्यन्ताभावत्वातू स म्बन्धान्तरावच्छिन्नैतत्पटात्यन्ताभाववदिति विशिष्यानुमानं ऊ हनीयमिति भावः ॥ ७ ॥ पराभिमतानुमानगतहेतुभ्यो दुष्टभ्योऽल्पे भ्यश्च स्वमताभिमतानुमानगतहेतूनां बाहुल्यं समीचीनत्वं स्पष्ट मेचेतेि, युक्तिभिरेव ज्ञातव्य मित्याह-* हेतवइति ' ॥ ८ ॥ ॥ मिथ्यात्वे विशेषानुमालोपसंहार: ॥ नन्वस्तु शाब्दबाधः तथा हेि । “ विश्वं(१)सत्यं'यश्चि(२) केतस त्यमित्तन्न मोघं’ ‘या(३)थातथ्यतोऽथनू व्यदधाच्छाश्वती य: समा