पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ १ परिच्छेदे पारमार्थिकसत्वाधिकरणावृत्तिमद्भवेत् ॥ १ ॥ शक्तिरूप्यत्ववद्रह्मावृत्तित्वात्सत्यभेदवत ब्रह्मान्यत्वाज्जगत्सर्वे मिथ्या स्याच्छुक्तिरूप्यवत् ॥२॥ ब्रह्मत्वं ब्रह्मवृत्तित्वान्न भेदप्रतियोगि तत् । न सन्निष्ठोभवेज्जातु भेदः सत्प्रतियोगिकः ॥ ३ ॥ मिथ्यात्वं ब्रह्मतुच्छातिरिक्तत्वव्यापकं भवेत् । समस्तमिथ्यावृत्तित्वाद्यथा दृश्यत्वमिष्यते ॥ ४ ॥ दृश्यत्वं सद्वृत्ति स्यादभिधेयैकवृत्ति यत् । शुक्तिरूप्यत्ववद्भ्रान्तिसिद्धवस्तुगतं यतः ॥ ५ ॥ परमार्थसद्भिन्नत्वव्याप्यं दृश्यत्वमस्तु वा । दृश्यान्यावृत्तिधर्म-लवात्प्रातिभासिकता समं ॥ ६ ॥ रमते केवलान्वयित्वादन्योन्याभावमात्रप्रतियोगि स च समाना धिकरणएव अस्मन्मते तु मिथ्यैवेति नोभयथाऽपि साध्यवैकल्यं अत्यन्ताभाव: प्रतियोग्यवच्छिन्नवृत्तिः निस्याभावत्वात् अन्यान्या भावचतू, ब्रह्मत्वं न परभार्थसन्निष्ठान्योन्याभावप्रतियोगितावच्छे दकं ध्रह्मवृतित्वात् असद्वैलक्षण्यवत, परमार्थसत्प्रतियोगिको भदो न परमार्थसन्निष्टः परमार्थसत्प्रतियोगिकत्वात् परमार्थसत्वाव छिन्नप्रतियोगिकाभाववत्, मिथ्यात्वं व्रह्मतुच्छोभयातिरिक्तत्व व्यापक , सकलमिथ्यावृत्तित्वात मिथ्यात्वसमानाधिकरणात्यन्ता भावाप्रतियोगित्वाद्वा हृश्यत्ववत्, दृश्यत्वं परमार्थसदवृत्ति अभि धेयमात्रवृत्तित्वातू शुक्तिरूप्यत्ववत्, दृश्यत्वं परमार्थसद्भिन्नत्व नीत्याह“ ब्रह्मत्यादिप्रातिभासिकतासममित्यन्तै षड्भिः ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ॥ मिथ्यात्वविशेषानुमाननिरूपणम् ।