पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ १ परिच्छेदे प्रत्यक्षादेरतः सिद्धा भाविबाधविनिश्चयात् ॥ ८९ ।। न चानुमानबाध्य-त्वं मिथ्या-त्वानुमितेरपि । व्याप्यत्वासिद्धिदोषाचैर्तुष्टत्वात्तेऽनुमाऽप्रमा ॥ ९० ॥ नाद्यविरोधित्वमिति फलितमुपसंहरति-* अद्वैतेति ? ॥८९॥ ॥ भाविबाधोपपत्तिः ॥ स्यादेतत् अध्यक्षस्य भिन्नविषयत्वादिना बाधाक्षमत्वेप्यनुमानमेव वा धक स्यातू तथा हि ब्रह्मप्रमान्येन वेदान्ततात्पर्यप्रमितिजन्यज्ञाना न्येन वा मोक्षहेतुझानान्येन वा ऽबाध्यत्वेस्सत्यसत्वानधिकरणत्वेसति वह्मान्यतू विमतं वा सत्तू परमार्थसद्धा प्रातिभासिकसत्त्वानधिक रणत्वे सत्यस्तद्विलक्षणत्वातू ब्रह्मावत व्यतिरेके शशश्पृङ्गबद्धेत्या शङ्कय निराचष्ट –“न वेति' । त्वन्मते प्रातिभासिकस्थाप्यसत्त्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धेः अस्मन्भतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतरावाध्ये व्यभिचारात न हि प्रातिभासिषकत्त्रै ब्रह्मज्ञानेतरबाध्यत्वादन्यत्तू त्वया हि प्रतिभासिकस्य शुक्तिरुप्या देरपक्षत्वाय सत्यन्तमाद्य विशेषणत्रयं विकल्पेन पक्षे प्रक्षितं, तत्र म्रह्म वृत्तिव्याप्यमिति मतेनाद्य, तदनऽभ्युपगमे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयं, अन्योन्याश्रयत्वान्न सा हेतुरिति मतेन वृत्ताय, तथा च प्रातभासकस्यास्सत्त्वानाधऋकरणत्वमङ्गीकृत मेव अन्यथा तुच्छ्वारकासत्वानधिकरणत्वविशेषणेनैव तद्यावृ तावेतत्प्रयासवैयथ्यपत्तेः एवं च देहात्मैक्यस्यापि पक्षत्वे बाध एव बाधे च सति पक्षविशेषणस्य पक्षत्वस्यासिद्धयाऽऽश्रयासिाद्विरापि । अत एव स्वबाधकाभिमताबाध्यदोषजन्यज्ञानाविषयत्वे सतीति वा, स्वबाधकाभिमताबाध्यबाधाविषयत्वे सतीति बा, खसमानाधिकर णकर्मप्रागभावसमानकालीनज्ञानाबाध्यत्वे सतीति वा, विशेषणप्रक्षे पेपि न निस्तारः देहात्मैक्ये पूर्वदोषाव्यावृत्तेरेव । तेऽनुमाऽनुमानमप्रमा सर्वथा हेत्वाभासैप्रैस्तत्वादप्रमाणमेवेति तात्पर्यार्थः ॥ ९७ ॥ ॥ मिथ्यात्वानुमानस्याऽनुमानाबाध्यत्वोपपतिः ॥