पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२ ) श्रीयते तत्राहि देहव्यतिरिक्तात्मास्तित्वसमर्थनं प्रतिज्ञाय तस्य पूर्व मीमांसायामेव शास्त्रपफलोपभोगयोग्यत्वेन भाष्यकारशधरस्वामिनाः

  1. {

ध्यकृता न तु तत्रात्मास्तित्त्वे सूत्रमस्ति इहतु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेप पुरस्सरं प्रतिष्ठापितं इत एव चाकृष्याचार्येण श बरस्वामिना प्रमाणलक्षणे वर्णितम् अत एव च भगवतोपवर्षेण प्र थमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तो शारीरके वक्ष्याम इत्युद्धारः कृत: इह चेदं चोदनालक्षणेधूपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते कृत्स्राशास्त्रशेषत्वप्रदर्शनायेति ' तदास्तां विस्तरः । थावद्विशदीकृतमपि भाष्यमहानिबन्धेषु कैश्चिद्वर्वाचीनैरुद्भावि तानां दोषाभासानां समुद्धरणविश्धयाऽपृपुषन् पञ्चपादिकाविवर णवार्तिकभामत्यादिनिबन्धरत्रप्रणयनद्वारा पूर्वाचार्याः । परममीषां निबन्धानामतिगम्भीरार्थप्रचुरतया तत्प्रदर्शितयु क्तिशतै: समूलमुन्मूलितऽप्यद्वैताविपक्षपक्षे “हत भीष्मे हते द्रोणे कर्णे च विनिपातिते । आशा बलवती राजनू शल्योजेष्याति पा राडवानिति ” न्यायमनुहरमाणानू “ निर्वेिषणाऽपि सर्पण कर्तव्या महती फणे"त्युक्तरीत्या पुनरपि सिद्धान्तसिद्धमर्थ प्रतिक्षेप्तुं प्रत्यव स्थातुकामाँश्च तादात्विकान् न्यायामृतादिग्रन्यप्रणेतृन् व्यासार्यप्र भृतीन् दुर्वादिनः समालक्ष्य विषस्य विषमौषधमिति न्यायमनुस न्धायान्यादृशीमेव निर्वचनप्रक्रियां पुरस्कुर्वाणाः शकलीचिकीर्षवः प रोक्तीः प्राणैषुरद्वैतसिद्धिप्रमुखान् वज्रसारमयान्निबन्धान् सर्वद शैनाचार्यश्रीमन्मधुसूदनसरखतीसूरिवराः । यदीयमहिंस्रा पुरन्द रकरविस्पृष्टकुलिशक्षुण्णा इवाद्विपक्षाः सहसैव व्यशीर्यन्त भट्वा दिनां दुरुक्तय तदनु कश्चिन्मध्वमतानुयायी तरङ्गिणीनान्ना निबन्धेनाद्वैतसि द्धिकारोक्तदूषणोद्धाराय प्रायतिष्ट तत्सवै सङ्कलय्य लघुवन्द्रिका बृहञ्चन्द्रिकाभिधानाश्यां व्याख्यानाभ्यां गाँडब्रह्मानन्दाभिक्षुस्समू लघातं निराकरोत् । अथ वनमालिमिश्रनामा कश्चिद्रौडजातीयः कानि चिद्दूषणान्युद्भावयामास तदप्यद्वैतवैजयन्त्यभिधेन निव न्धवरेण पण्डितसार्वभौमस्त्र्यम्बकशास्त्रिवर साधु निरास्थदिति हि वृद्धप्रवक्तृपारम्पर्येण श्रूयते । उपलभ्यन्ते च ते ग्रन्थास्तत्त