पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [१ परिच्छेदे तात्विक-त्वविरोधेन तत्परत्वं ततः श्रुतेः ॥ ७२ ॥ मानान्तराबाधित-त्वात्पर-त्वं तेन च श्रुतेः । व्यभिचारः पर-त्वस्य न प्रमानन्तरभ्रमे ॥ ७३ ।। अपवादापवादे स्यादुत्सर्गस्य व्यवस्थितिः । निर्दोष-त्वं श्रुतेस्तस्मान्नान्यथासिदमिष्यते ॥ ७४ ॥ तात्पर्यविषये यस्मात्प्रामाण्यं चाभ्युपेयते । पूर्वोक्तन्यायतस्तस्मान्न वैषम्यं मन्नागाप ॥ ७५ ॥ न मिथ्या-त्वानुमानस्य वन्हिशैत्यानुमानवत् । बाधितपरत्वं विवक्षितं तेन प्रमानन्तरभ्रमे न व्यभिचारस्तस्य ततु प्तरभाविमानबाध्यत्वातू, नत्का सेडित्यस्य तु पाठतः परत्वेऽपि ख भावसिद्धकित्वस्थानेनापाकरणं विना पुनस्तत्प्रतिप्रसवार्थ मृद्धम् देत्यादेरप्रवृत्तेस्तदपेक्षयाऽर्थतः पूर्वत्वमेवापवादापवादे उत्सर्यस्यैव स्थित्वातू अतो निर्दोषत्वमपि नान्यथासिद्धिमितेि त्रयाणां समुदि तार्थः ॥ ७२ ॥ ७३ ॥ ७४ ॥ तात्पर्यविषयएव प्रामाण्यस्याभ्युपे दित्यबोधभात्रविजूम्भितमपच्छेदन्यायवैपभ्याभिधानमित्याह

  • तात्पर्येति ? । ॥ ७५ ॥

॥ अपच्छेदन्यायवैषम्यभङ्गः ॥ ननु भवतु वेदेन प्रत्यक्षबाधनं अनुमानं तु न तद्वाधितुमुत्सहते यदि प्रत्यक्षबाधितमप्यनुमानं साधयेत्तू तदा वन्ह्यनौष्ण्यमपि साधयेत् तथा च कालात्ययापदिष्टकथा सर्वत्रोच्छिद्येत अनौष्ण्यानुमिते र्मिथ्यात्वानुमितेश्च . समानयोगक्षेमत्वातू औष्ण्यप्रत्यक्षायजमान त्वप्रत्यक्षादेः सत्वप्रत्यक्षापेक्षया विशेषो वा वक्तव्यो बाधस्य दोषता वा त्याज्या न चौष्ण्यप्रत्यक्षं परीक्षितोभयवादिसिद्धप्रामाण्यं सत्व प्रत्यक्षं न तथेति विशेष इति वाच्यं । सत्वप्रत्यक्षे ऽपि प्रामाण्यासस्मतौ