पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिथ्यात्वानुमितेर्वन्हिशैत्यानुमितिसाम्यभङ्गः । २५ कालात्ययापादिष्टत्वं विशेषोऽस्ति यतस्तयोः ॥ ७६ ॥ औष्ण्यवालिङ्गतो ग्राह्य शैल्यं तु व्यावहारिकं । औष्ण्यप्रत्यक्षतः साम्यालिङ्गग्राह्य हि बाध्यते ॥ ७७ ॥ प्रत्यक्षसिड स-त्वं तु प्रकृते व्यावहारिकं । तद्विरुद्धं न मिथ्यात्वं वस्तुसत्वविरोधि तत् ॥ ७८ ॥ व्यावहारिकसत्वैकग्राहकेण न बाध्यते । प्रत्यक्षेण ततो वन्हिशैत्यग्राहि न साम्यभाक् ॥७९॥ मानं परीक्षितत्वेन प्रत्यक्ष प्रबलं भवेत् । क्षेत्वभावात् परीक्षायास्तुल्यत्वादित्याशङ्कयाह-“ नमिथ्यात्वे त्यादि }) चतुर्भिः । प्रत्यक्षसिद्धायजमानत्वौधरण्यादिवच्छब्दलि ड्रग्राह्ययजमानानौष्वयाद्यपि व्यावहारिकमिति समत्वात्प्रत्यक्षेण बा ध्यते प्रकृते तु सत्वं व्यावहारिक प्रत्यक्षसिद्धं तद्विरुद्धं च न मि श्यात्वं तस्य पारमार्थिकसत्वविरोधित्वादतो न व्यावहारिकग्राह केण्णाध्यक्षेण बाध्यते इत्यस्ति वैषम्यं तस्मान्मिथ्यात्वानुमानस्य न वह्निशैत्यानुमितिसाम्यमिति तत्साम्यभङ्गइति चतुर्ण समुदि तथेः ॥ ७६ ॥ ७७ ॥ ७८ ॥ ७९ ॥ ॥ मिथ्यात्वानुमितेर्वन्हिशैत्यानुमितिसाम्यभङ्गः ॥ इदं रजतमिति प्रत्यक्षस्यानुमानाप्तवाक्याभ्यां, नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन, गौरोहमित्यस्याहमिहैवास्मि सदने जाना नइत्यस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य चागमानुमानाभ्याँ, पीत: शा इङ्गस्तित्क्तो गुङइत्यादेश्चानुमानाप्तवाक्याभ्यां बाधो दृश्यते तस्मात्परी