पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ९ ) काशा इति । अस्यार्थ: प्राह्यभेदं धटादिबाह्याथै तिरस्कृत्य घटादि रूपाकाराभिन्नरूपेण ज्ञानस्य वृत्तिः सम्बन्धः कापि नास्ति तद्बाधके घटादिबहिरर्थबाधके ऽद्वैतत्रह्मरूपाधिष्ठानसाक्षात्कारे जाते तु ब लिनि सर्वेऽभ्यो द्वैतवादिभ्यो बलवति वेदनये वेदान्तदर्शने जयश्री: जयोत्कर्षकाष्ठा । बौद्धमतापेक्षया तार्किकमते जयस्तदपेक्षया सा ङ्गन्यमते जयस्तन्मते आत्मनोऽसङ्गत्वादिस्वीकारात् तदपेक्षयाऽपि वैदिकमते, द्वैतमिथ्यात्वादिस्वीकारातू अतो जयोत्कर्षकाष्टा यदि तु निष्कामकर्माननुष्ठानाश्चित्तं न शुद्धं तदा श्रवणादौ सत्यपि तादृश साक्षात्कारभावेन विश्वमनित्यतया प्रतीयमानमपि तथ्यमेव व्या वहारिकसत्यत्वात्तत्रापाततस्तार्किकादिभिर्विश्वं ब्रह्मवत्परमार्थसत्य मिति वक्तुं शक्यं तथागतस्य तु बौद्धस्य तु मतस्य ज्ञानादत्यन्तभिन्न जगदलीकमित्येवंरूपस्य कोऽवकाश इंतेि । एवमग्रेऽपि शून्यवादिद् षणोपसंहारे “अस्तु तर्हि शून्यतैव परमं निर्वाणमिति चेन्न । सा हि यद्यसिद्धा कथं तद्वशेषं विश्चै परतश्रेत्सिद्धा परोऽप्युपगन्तव्य स च परो यादि संवृत्तिरेव विश्वशून्यतयोर्न कश्चिद्विशेषः कथं तद् प्यवशिष्येत असंवृत्तिरूपश्चेत्परः परत एव सिद्धाचनवस्था स्वय मसिद्धश्चेत्कथं शून्यत्वमपि साधयेत स्वत: सिद्धश्धदायातोऽसि मार्गेण, तथा हि स्वत: सिद्धतया तदनुभवरूपं शून्यत्वादेव न तस्य कालावच्छेद इति नित्यमत एव न देशावच्छेद इति व्यापकमत एव निर्धर्मकमिति विचारास्पृष्टं तस्य धर्मधर्मिभावमुपादाय प्रवृत्तेरत एव तस्य विशेषाभाव इत्यद्वैतं प्रपञ्चस्यापारमार्थिकत्वादेव निष्प्रति योगिकमिति विधिरूपं आविचारितप्रपञ्चाक्षेपात्तु शून्यमिति व्यव हारः । तथाऽऽपि प्रपञ्चश्शून्यस्याऽनुभवमात्रस्य प्रपञ्चेन क: सम्बन्धः न च नायै प्रकाशते इति चेद्वस्तुतो न कश्चित्संवृत्त्या तु गगनगान्ध वैनगरयोराधाराधेयभाव इव विषयविषयिभावः स च यथा नैया यिकैः समर्थयिष्यते तथैव वेद्यनिष्ठरुत्वसावस्मिन् दर्शने इति वि शेषः तत्तन्मायोपनीतोपाधिभेदाञ्चानुभूतिरपि भिन्नेव व्यवहारपथ मवतरति गगनमिव स्वमद्दष्टघटकटाहकोटरकुटीकोटिभिस्तदास्तां तावत् किमाद्रंकवणिजां बहित्रचिन्तयेति । तस्मादनुभवव्यवस्थिताव: नात्माऽपि स्फुरतीत्यवर्जनायमिति प्रविश वाऽनिवर्चनीयख्यातिकु क्षिं तिष्ठ वा मतिक्कममपहाय नीलादीनां पारमार्थिकत्वे' इत्यादि