पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८ ) खदु:खादीनां मायात्वात्तस्याश्च तत्त्वज्ञानेन निवृतावात्मास्वरूपेण प्रकाशमानः स्वरूपावस्थितो भवतीत्यूविरे एवमपि अद्वितीया त्मतत्त्वस्वरूपं निरूपितं न भवतीति तान्निरूपणप्रधानं वेदान्तशास्त्र प्रवृत्तं तत्र च सजातीयविजातीयस्वगतंभेदशून्यं त्रिकालाबाध्यमात्म स्वरूपमेवाऽस्ति परमार्थसत न तु तदतिरिक्त किञ्चिदिति निरूपितं तेन निरवशेषा कृतकृत्यता सिद्धा भवति अतः परं कर्तव्याभावातू कर्त ध्यतायाश्च भेदाधीनत्वात् भेदस्य च तत्त्वज्ञानेन निवृत्तत्वात् । सा इङ्गन्यादिपक्षे थद्यप्यात्मनि तात्त्विकबन्धोनाऽभ्युपेयते तथाऽपि च न्धकारणस्यादर्शनस्य तमसोनित्यत्वमभ्युपगम्यते इति तस्यानि वृत्तौ तत्कार्यस्य बन्धस्यापि निवृत्तिरनुपपन्नेतेि अात्मव्यतिरिक्तमि थ्यात्वपक्ष एव कक्षीकर्तव्यः । येषां पूर्वपुण्यपुञ्जपरिपाकमहिन्ना भ गवत्कृपाकटाक्षवशेन च निष्टनिखिलरागादिदोषं स्वभावत एव कादीनामिव बाल्ये वाऽध्ययनगृहीतवेदान्तेभ्य एव वा श्रवणमा त्रेण वा श्रवणमननाभ्यां धाऽपरधीनप्रकाशात्मज्योति: प्रत्यगभेदे नानुभवपथामधिरोहति न तेषां पूर्वोदितसाधना ऽपेक्षास्तीति ता न्प्रति दर्शनान्तराणामनुपयोगित्वेऽपि न वैय्यथ्ये इतरान्प्रति चरि तार्थत्वातू । एवं सर्वेषां शास्त्राणां परस्परविरोधो निराकृतः यदि च। सर्वेषां दर्शनानां सर्वांशे ऐकमत्यमेव स्यात् तथा सति प्रणयनम पाथैकं भवेत तत्कार्यस्यैकेनैव कृतत्वादतः काश्चिदंशः केन चिन्नि अप्यते कश्चिदन्येन भूमिकाक्रमेण न हि गङ्गोत्तरीम्प्रति प्रस्थिती हारद्वारमप्राप्य तथा च स्पबेथा रसवैरुपायै: परमा तां प्राप्तुमर्हति त्मा शरणीकरणीय तदुक्तम् पुष्पदन्ताचार्ये: 'त्रयी इत्यत्रवतात्पर्यम् साङ्गन्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्याइजुकुटिलनानापथजुषां नृणामेकोग म्यस्त्वमसि पयसामर्णव इवेति' तथा गौडपादाचाथैरप्युक्त ‘मृलो हविस्फुलिङ्गाछै: सृष्टियाँ चोदिताऽन्यथा । उपायः सोऽवताण्य नास्ति भेदः कथञ्चनेति । इतरेषां दर्शनानां गौणत्वं वेदान्तदर्शनस्योपकार्यत्वं चोक्तमु दयनाचायैरेवात्मतत्त्वविवेके विज्ञानवादिदूषणोपसंहारे 'न प्रा ह्यभेदमवधूय धियोऽस्ति वृत्तिस्तद्बाधके बलिनि वेदनये जयश्रीः । नो चेदनिन्द्यमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्यं तु कोऽव