पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वमिति च घटादावद्दष्टः शुक्तिरजतादौ च तदुभयदर्शनात्कृते मीमांसकास्तु नात्मजिज्ञासायां प्रवृत्ता इति न त इहोदाहर णम । यतु साधुशब्दाधिकरणे भट्टपादैः “सर्वत्रैव हि विशानं संस्कारत्वेन गम्यते । पराङ्ग चात्मविज्ञानादन्यत्रेत्यवधार्यता मित्यात्मज्ञानस्य स्वतः पुरुषार्थत्वमुक्त तत्स्वस्याऽस्तिकत्व प्रदर्शनार्थम् न तु शास्रतात्पर्यं तत्राऽस्तीति । मीमांसाभा ष्यकारसमर्थितात्मास्तित्वस्य “ यदाह नास्तिक्यनिराकरिष्णुरात्मा ऽस्तितां भाष्यकृदत्र युक्तया । दृढत्वमेतद्विषयश् बोधः प्रथाति वे दान्तनिषेधणेने'ति तैरेव तादथ्र्यप्रदर्शनातू । अयमत्र निर्गलितोऽर्थः, तत्त्वज्ञानादेव मोक्षः स एव परमपुरुषा र्थत्वनैषितव्यो भवति सर्वेषाम् तच्च तत्त्वज्ञानमनेनकजन्भानुष्ठित कृतपरिपाकबशाद्विशुद्धचित्तस्सत्वस्य योगानुष्ठानसमासादितैका अन्यस्यैव पुरुषधौरेयस्य समुपजायते कर्मानुष्ठानं च कर्मस्वरूपाय गतिमन्तरा न सर्वाङ्गसुन्दरं सम्भवतीति तत्प्रदर्शनाय प्रवृतं मीमांसाशास्त्रं निरूपिताश्च तत्र सपरिकरं कर्मस्वरूपभेदा: घोडश भिरध्यायै: । कर्मानुष्टाने च कर्मस्वरूपावगतिवत् देहाद्यतिरिक्ता मुष्मिकफलोपभोगयोग्याधिकार्यात्मतत्त्वज्ञानस्य पदार्थानां च त्रीहि यवादीनां इतरेतरवैधम्र्यज्ञानस्य चापेक्षिततया तत्स्वरूपनिर्णयोपयो गिप्रमाणादितत्त्वजातं यथावन्निरूपयितुं तत्त्वज्ञानान्निःश्रेयसाधि गम इत्याद्यसूत्रयत् भगवानक्षपादाचार्यः । ये चात्मनो ज्ञानादिगु एणकत्वं परमाणुरणतावादो जगत्सत्यत्वमित्यादयोऽथ स्ते औप निषदसिद्धान्तविरोधिन इव दृश्यमाना अपेिन तत्प्रातिपक्षतामश्नु वते शास्त्रस्य तत्राऽतात्पर्यात लोका हि यथा वेदेषु श्राद्धाः सन्तो देहातिरिक्तात्मा कश्चनाऽस्ति स एव चामुमिकफन्लोपभोक्तति विनिश्चित्य कर्माण्यनुतिष्ठरन् तथा किल चिकीर्षितं शास्त्रस्य त द्यदि पूर्वमेव जगन्मिथ्यात्वनिरूपणपूर्वकमकभोक्रात्मखरूपं प्रति पाद्यते तर्हि नाहं कर्ता भोक्ताचेति निश्चित्य कर्मसु न प्रवर्तरन् चि त्तशुद्धिवकस्य ज्ञानोदयस्याभावेन निःश्रेयसाष्ध विहन्येन्नित्यौप निषदात्मस्वरूपनिरूपणप्रयासमुज्झित्य कर्मानुष्ठानप्रवृतिप्रतिबन्ध कमनात्मनि देहादावात्मतादात्म्यज्ञानं तात्विकप्रमाणभावात्प्रच्या च्याहं जानाम्यहं सुखी. :खीत्यादिप्रत्यक्षसिद्धमात्मनो ज्ञानादिगु