पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५ विशेषाद्वैतवादसहकारित्वं परस्परं विरुद्धत्वात इति चेदित्यं तथा ) २६ प्रतिपिपादयिषितो वेदान्तानां स च साक्षात्परम्परया वा तदानु गुण्येन सर्वतीर्थकराणामभिप्रेत एवेतेि सुस्पष्टमेवावगम्यते यथा ऽऽह भगवानक्षपादाचार्य: सू० २ 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञा नानामुत्तरोत्तरापाये तदनन्तरापायादपचर्ग' इति । दुःखादिषु पूः र्वपूर्वस्योत्तरोत्तरकार्यत्वान्मिथ्याज्ञानस्य संसारहेतुत्वं तन्नाशे सं सारनाश इति तुल्यमन्यत्राभिनिवेशात्तू दोषनिमित्तस्य मिथ्या शानस्य स्वरूपुं स एवाह 'दोषनिमित्तं रूपादयो विषयाः सङ्कल्प कृता' इति । तन्निमित्तन्त्ववयच्याभिमान’ इति च । तन्नाशोपायमित्थं पुनरसूत्रयत मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्रविषयापलब्धि प्रणाशरावत्प्रबाध’ इति । अत्र रूपादिविषयोपस्थापनद्वारा दोषा दिजनकस्य सङ्कल्परूपमिथ्याशानस्य श्याज्ञानं संसारमूलं दग्धेन्धनानलवत्तदुपशमो मोक्ष इति च तुल्यमेव । तथा साङ्गन्या अपि ‘शानेन चाऽपवर्गे विपर्य थादिष्यते बन्ध' इत्यज्ञानकार्यत्वं बन्धस्योत्वा ‘एवं तत्त्वाऽभ्यासा लास्मि न मे नाहमित्यपरिशेषं । अविपर्ययाद्विशुद्ध केवलमुत्पद्यते ज्ञान'मित्यनेनास्मितामहङ्कारं. ममकारं च वर्जयित्वा ऽपरिशेषं पुरु षमात्रशरीरं शानं अज्ञानतत्कार्यनिवर्तकमित्यूचिरे । एवं पात ॐला अपि ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्याति त्य प्रात पादितानामविद्यातद्भदानां तन्मूलानां च पञ्चविधलेशानां ‘योग श्चित्तवृत्तिनिरोधः’ ‘तदा द्रष्टुः खरूपे ऽवस्थान'मित्यादिना निवृत्ति कथनेन स्वरूपावस्थितिलक्षणां जीबन्मुक्तिमुपवर्णयन्त साधुस म्पादयन्त्यविरोधम् । वस्तुन्नस्तूभयपक्षे ऽपि ‘प्रकृतेः सुकुमारतरं न किंचिदस्तीनि मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्नदर्शनमुपैति पुरुषस्य' । ‘कृतार्थम्प्रति नष्टमप्यनष्ट तदन्यसाधारणत्वादिति मुक्त प्रति प्रकृत्यदर्शनबाधने प्रकृतेर्मिथ्यात्वं गभयति न हि द्रष्टर्दष्टर्चि परिलोपो विद्यते ऽविनाशित्वादिति' श्रुत्या तन्मतेऽपि चिद्वपस्य पु