पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४ ) परिवाजकवेषण मिश्रानाश्रमदूषकान् । दण्डहस्तस्तथा कुण्डी काषायवसनोऽमल: । भस्मदिव्यत्रिपुण्ड्राङ्क रुद्राक्षाभरणोज्ज्वलः ॥ ताररुद्रार्थपारीणः शिवलिङ्गार्चनप्रियः । खशिष्यैस्तादृशैर्युष्यन् भाष्यवाक्यानि स्लोम्बिके ॥ मद्दन्तविद्यया भिक्षुर्विराजति शशाङ्कवत् । सोद्वैतोच्छदकान्पापानुत्साद्याक्षिप्य तर्कतः ॥ खमतानुगतान् देवि करोत्येव निरर्गलम् । तथापि प्रत्ययस्तेषां नैवासीच्छ्रुतिदर्शने ॥ तेषामुद्बोधनार्थाय तिष्ये भाष्यं करिष्यति । भाष्यधुष्टमहावाक्यैस्तिष्यजातान् हनिष्यति ॥ अद्वैतमेव सूत्रार्थे प्रामाण्येन करिष्यति । इत्यादि । तथा कौर्मे पूर्वखण्डे त्रिंशेऽध्याये करिष्यत्यवताराणि शङ्करो नीललोहितः । श्रौतस्मार्तप्रतिष्ठार्थ भक्तानां हितकाम्यया ॥ उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंशितम् । सर्ववेदान्तसारं हि धर्मान्वेदनिदर्शनानू ॥ ये तं प्रीत्या निषेवन्ते येन केनापचारतः । विजित्य कलिजान्दोषान्यान्ति ते परमं पद्भ ॥ अनायासेन ते यान्ति मानवाः । सुमहत्पुण्य अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ इति तथा वायु पुराणेऽपि---- चतुर्भिस्सहशिष्यैस्तु शङ्करोऽवतरिष्यति । व्याकुर्वन्व्याससूत्राथै श्रुतेरर्थे यथोचिवान् ॥ श्रुतेन्ययः स एवार्थः शङ्करः सविता न न । इति नचैतादृशप्रामाणिकागमप्रथितप्रभावस्य श्रुत्यर्थनिर्णाश्कजैमिनीय न्यायोपहणपुरःसरे निविशेषाद्वैतसिद्धान्तै ध्यत्रतिष्ठापयिषतो भगवतो भाष्यकारस्य शब्दसन्दर्भः केवलमुत्सूत्रतयो दक्षरार्थतया वा कुशलेन सम्भावयितुं शक्यः यत्र हि साङ्गन्यादयो विप्र तिपद्यमाना अपि सापानारेराहणन्यायेन सहकारितामेव नि विशेषन्नह्मवादिनो भजन्ते । ननु कथं सर्वेषां दर्शनानां नि