पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २ ) धायनीयवृत्तिमुपजीव्य तत एवात्मानं विश्वविजयिनमभिमन्यमानाः कामं शब्दान्सङ्गिरमाणा अपि नापारयन्मात्रयाऽपि पूर्वाचार्यनिर्धा रेितवेदार्थविचारसरणिमन्यथयितुमिति न पाणिपिहितं सच्छास्त्र रहस्यविचारणप्रवणान्त:करणानां मनीषिणाम् । यत्तु बोधायनो नाम महर्षिः साक्षाद्बादरायणशिष्योऽतिविस्त रेण ब्रह्मसूत्राणि वृत्तिपदव्यपदेश्यव्याख्यानोपबतुंहे, तदेव पुर स्कृत्य श्रुत्यर्थजातं निराधारयन् पूर्वाचार्या: स च सिद्धान्त आधु निकैकर्मायावादिभिः स्वीयग्रन्थे पूर्वपक्षरूपेणोपाक्षिप्तो हठात्समुत्सा दितश्चेति परेषां केषां चित्तू भेरीधोषेण प्रत्यवस्थानं तन्न विचा रसहम् । किं श्रीशङ्कराचायैः स्वग्रन्थे वृत्तिकारीयमतोपदर्शकत्वेनोक्तो यः शब्दसन्दर्भ: स एव भवदीयार्षसिद्धान्ताभिप्रायक आहो खिदन्य एवेति ? ताद्यः मात्रया ऽपि भवत्सिद्धान्तस्य वृत्तिकारमतासंस्प र्शित्वात् वृत्तिकारो हि कार्यार्थे सर्वेषां शब्दानां सङ्गतिमास्थाय सर्ववेदान्तानामुपासनाविधिशेषत्वमातिष्ठते अयमेवार्थः समन्व यसूत्रभाष्ये अत्राऽपरे प्रत्यवतिष्ठन्ते इत्यादिना तत्पक्षेोपन्यास्स४षै कं निरूपितः लचैतादृशार्थानुसारित् सिद्धार्थे ऽपि सङ्गतिग्रह मिच्छतां भवतां वजुतं युक्तम् । अभयुपगमे वा साध्यरूपार्थस्यैव वेदतात्पर्यविषयत्वाप्त्या तस्य पूर्वतन्त्र एव सुनिरुपितत्वान्त न्निरूपणस्य निष्प्रयोजनत्वेन ब्रह्मसूत्रव्याख्यानकथैवोदुम्बरपुष्पा थिता स्यातू । न द्वितीयः अन्यस्य शब्दसन्दर्भस्य भवदीयार्षसिद्धान्ताभि प्रायकस्यानुपलब्धेः । एतेन बौधायनीयवृत्तिग्रन्थस्य मायावादिभिः स्वग्रन्थे निराकृततया तन्मूलकत्वेन स्वमतस्यानादित्वोद्धोषणमपि परेषां निरस्तम् । किञ्धबौधायनीयवृत्तिग्रन्थ एव चेद्वेदान्तसिद्धान्तो पजीव्यत्वेन श्रुतितात्पयवधारणायाशास्यत अवश्यमं तन्त्रान्तरे नुत्राद्यतया दूष्यतया भूष्यतया शेदलेखिष्यत । न च भवन्तम तिहाय बोधावनीयाभिनवशब्दकदम्बकं वृत्तिरिति व्यपदिशति धक श्चिदपि तैर्थिकः तत्प्रतिपाद्यमर्थ वा प्रसङ्गविशेषे बेदान्तसिद्धा अन्यश्च बौधायनो महर्षिः परमशाम्भवः स्वीयगृह्यसूत्रे रुद्रा ध्यायजपहोमाच्दनादीनामितिकर्तव्यताप्रकारं कालाग्रिरुद्रोपनिष