पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तो: कर्मततू समुञ्चयसाध्यत्वनिराकरणम् ॥ २३९ न मुक्तिः कर्मणा साध्या न ज्ञानादिसमुच्चयात् । मक्तरनित्यतापतेस्तत्त्वज्ञानेनं सा स्वयं ॥ ६८ ॥ ज्ञानादेव भवेन्मुक्तिर्नीन्यः पन्था इति श्रुतेः । अज्ञानकृतसंसारबन्धो ज्ञानेन बाध्यते ॥ ३९ ॥ मुक्तेर्भक्तिगरीयस्त्वं साधनातिशयस्तुतेः । ननु मुक्तिः प्रयागमरणादिकर्मसाध्येति मते ज्ञानकर्मसमुञ्चय साध्येति मते च प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् मुक्तसुखं परस्परतारतम्यवकि न स्यादित्याशङ्कयाह-*न मुक्ति रिति । केवलकर्मपक्षे समुच्चयपक्षे वा कर्मसाध्यत्वेन भुक्तरनित्य त्वापते: ‘नान्यः पन्था'इतेि. श्रुतिविरोधाश्च ब्रह्मसाक्षात्कारस्य नि गुणविषयतया गुणविषयत्वस्यैवाभावान्न तत्र वैषम्यमिति द्वयो स्तात्पर्यार्थः ॥ ६८ ॥ ६९ ॥ ननु 'मुमुक्षोरमुमुक्षुस्तु परत्रैकान्तभ क्तिमानित्यादि'स्मृत्या मुमुक्षुभक्तापेक्षया अमुमुक्षेोरनन्यभक्तस्याधि क्योक्तः तदाधिक्यस्य लाकरीतिसिद्धत्वाञ्ध * भक्तिः सिद्धेर्गरीय सीति'स्मृत्या अल्पभक्तिसाध्यमुक्तयपेक्षया अधिकमुक्तिहेतुभक्तेर प्याधिक्योक्तश्चेत्याशङ्काह-* मुक्तेरिति ” । तत्रायं भावः फलमनिच्छतो या भक्तिस्तस्यास्तु गरीयस्त्वं यत्प्रतिपादितं तत्तत्व साक्षात्कारे त्वरास्सम्पाद्कं न तु मुक्तितारतम्याक्षेपकं किं पुनब्र ह्मणाः पुण्याइत्यत्र कमुल्यन च साधनतारतम्यन नसाध्यतारतम्यं विवक्षितं किं तु विलम्विततरणरूपफलसम्बन्धमात्रपर्यवसानं कै मुत्यस्यापि त्वराफलालाभमात्रेणोपपत्तेः साधनमात्रतारतम्यस्य फलतारतम्याप्रयोजकत्वाच्च न हि दण्डतारतम्येन घटतारतम्यं क चिदपि दृश्यते । ननु ‘साधनस्योत्तमत्वेन साध्यमुत्तममाप्नुयुः । ब्रह्मादय: कमेणैव यथानन्दश्रुतैौ श्रुता'इति ब्रह्मानन्दे ‘अधिकं तव विज्ञानमधिका च गतिस्तवेति'साक्षान्मोक्षधर्मे च साधनतारतम्येन