पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ सव्याख्याद्वैतस्लिाद्धास्सिद्धान्तसारे । [४ परिच्छेदे यथा तथैव तादूप्यं सायुज्यस्यापि सम्मतं ॥ ६४ ॥ सायुज्यस्य विभक्तत्वाभाव एव गिरोदितः । नवा सम्बन्धमात्रार्थः सायुज्यमिति शब्दतः ॥ ६५ ॥ श्रोत्रियस्येति वाक्येषु सर्वेष्वानन्दवर्णने । अकामहतमुक्तस्यैकत्वेपि सुखमद्वयं ॥ ६६ ॥ अन्तर्भावात्तदानन्दे सर्वानन्दस्य तद्धिया । अतो मक्तिसुखं सर्वतारतम्यविवर्जितं ।। ६७ ।। भेदरूपपरममुक्तः पारलौकिकफलत्वाभावात 'ब्रह्मविदाप्तोति प र'मित्यादाववाप्तिर्बह्मरूपत्ववत् सायुज्यस्यापि तदूपताथा अङ्गीकर णीयत्वातू चन्द्रभसः सायुज्यमित्यादौ एकापाध्यवच्छिन्नस्योपा ध्यन्तरावच्छिन्नेनैक्यानुपपत्तिवदन्नानुपपत्तेरभावाझ तथात्वमित्या ह--* अवापेरिति ' ॥ ६४ ॥ प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वात्सायुज्यशब्दस्तावद्धिभक्तन्त्रा भावाभप्रायक इत्याह रसायज्यस्यात ॥ ६५ ॥ यश्चोत्त रोतरं शतगुणानन्दप्रकाशकबाक्थेषु प्रतिवाक्यं मुक्तावकामह शतशव्द्रप्रयागान्मानुषानन्दवदकामहतमुक्तानन्देऽपि तारतम्यं त त्रेत्याह--* श्रोत्रियस्येति " । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति' सर्वेषां लौकिकानन्दानां परमानन्दान्तवा भिधानोपपतेर्नतु तस्य तस्याकामहतस्य तावानेवानन्द इति येन तञ्जा पि तारतम्यं कल्पयेन तथाच सर्वेषु वाक्येषु अवकामहनस्य मुक्तस्यै कत्वेपि तदानन्द सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन् आनन्दे वक्तव्ये परामृश्यते तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभि धानोपपत्तेर्न तेन तारतम्यशङ्का स्वरूपानन्देऽवकाशं लभते इति द्वयोस्तात्पर्यार्थ: ॥ ६६ ॥ ६७ ॥