पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मखरूपानन्दस्य निरतिशयत्वोपपत्तिः । तारतम्यस्य विश्रान्तः स्वरूपानन्द एव िह। ६१ ॥ अविद्याध्वस्तिरप्येका तारतन्यविवर्जिता । आनन्दस्य स्वरूपत्वान्न गुणत्वादिकल्पना ॥ ६२ । । सुखे वैषयिके यद्धि साधनैस्तारतम्यतः । तारतम्य न तब्रह्मस्वरूपान्मन्द इष्यत ।। ६३ ।। ब्रह्मवित्परमाप्रोतीत्यवाप्तेर्बह्मरूपता । २३७ स्वसजातीयबन्धनिवृत्त्याश्रयप्रतियोगिकतारतम्यवन्निष्टा बन्धनिवृ त्तित्वात् निगडबन्धननिवृत्तिवदिति निरस्तं तारतम्यस्य गुणगत जातित्वेन बन्धनिवृत्त्याश्रयात्मनि वक्तुमशक्यत्वादिति भावः ॥ ६१॥ अतएव निवृत्तिगततारतम्यसाधनमप्यपास्तं निवृत्तेर्निरतिशयत्वा स्थिाह--*अविद्याध्वस्तिरिति' । आनन्दस्य खरूपतया उभ यवादिसिद्धेन गुणत्वाभावेन तत्रापि तस्य वतुमशक्यत्वादित्य थैः ॥ ६२ ॥ वैषयिकसुखे साधनतारतम्यप्रयुक्ततारतम्ये सत्यपि स्वरूपानन्दं तदभावान्न तारतम्यमित्याह-* सुख्ख ?' इतेि ॥६३॥ सायुज्यादिगतमुक्तौ उत्कृष्टत्वव्यपदेशोऽपकृष्टत्वाभावमात्रेण न तु स्वरूपणत्याह --* ब्रह्मविदिति । ननु सायुज्यं नैक्यं चन्द्रमसः सायुज्यं सलोकतामाप्रोनीत्यादिश्रुतौ सत्यपि भेदे सा युज्योक्तः “सयुजः परमात्मान प्रावश्य च बांहगता 'इत्यादी स युजां प्रवेशमात्रोत्तेश्च, सयुजोभावः सायुज्यमिति युजशाब्देन सम्ब न्धस्यैवोक्त: * सालोक्यमथ सामीप्यं सारूप्यं योग एव चे'ति स्मृतौ सायुज्ये सम्बन्धकवाचकयोगशब्दप्रयोगाच्च तस्मात्सायुज्यं नाम | मित्याशङ्का व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वनापुमर्थत्वात् नचैतलोकस्थितस्य जीवस्य लोकान्तरस्थितालौकिकशारीररावच्छिन्ने नेश्वरेण संश्लेष: साध्य: ‘अत्र ब्रह्म समश्नुत'इतिश्रुतेः उत्क्रमणग