पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [४ परिच्छेदे यत्र स्यात्तारतम्यं साऽवान्तरा मुक्तिरीरिता ॥ ५९ ॥ मुक्तस्य ब्रह्मरूपत्वान्न जीवत्वमुपाधिना । तत्वज्ञानेन चाज्ञाने नटे नासावुपाधिभाक् ॥६०॥ मानुषानन्दमारभ्य ब्रह्मानन्दान्तवर्णने २३६ मुक्तौ उत ब्रह्मलोकादिवासरूपापमुक्तौ नाद्यः ‘एवं१)मुक्तिफलानि यमस्तदवस्थावधृतेस्तदवस्थावधृतेरिति तृतीयान्त्याधिकरणे ‘ऐहि(२)- कमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनादित्येतत्सूत्रोक्तशानगतैहिकत्वामु ष्मिकत्वरूपविशेषवन्मुक्तावपि तारतम्यमाशङ्कनिषेधातू द्वितीयेत्वि पतिरित्याह--“साऽवान्तरांत '॥५९॥ ननु मुक्तजीवभोग ईश्ध रभोगान्निकृष्टः जीवभोगत्वात्तू संसारिभोगवत् एवं जीवज्ञानादिक मपि पक्षीकृत्य प्रयोग उहीथ: ईश्वरानन्दो जीवानन्दादुत्कृष्ट: त न्नियामकानन्दत्वात् यदेवं तदेवं यथा सेवकानन्दात्सेव्यानन्द: - श्वरोजीवखभावानन्दादित उत्कृष्टस्वभावानन्दादिमान् तत्प्रप्सुत्वे सति तत्रशक्तत्वातू योयत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान्यथा संमत इत्यादीनि तारतम्यसाधकान्यनुमानानि सन्तीत्याशङ्काह

  • मत्तस्येति ' । आद्येऽनुमाने मुक्तस्य ब्रह्मरूपतया उपाधिकृ

तजीवत्वाभावेनाश्रयासिद्धिः स्वरूपासिंद्धिश्च द्वितीयाद्यनुमान जी धेश्वरविभागकाले तारतम्यसाधनै चेत् सिद्धसाधनं तद्भिन्नकाले चेत्पूर्वदोषानीतवृत्तिरिति तात्पर्यार्थः ॥ ६० ॥ सैषानन्दस्येत्यादिश्रुतिभिर्मानुषानन्दमारय ब्रह्मानन्दपर्यन्ते पूतरोत्तरशतगुणत्वरूपतारतम्यमुपाधितारतम्येन वदन्तीभिर्निरू पाधिके स्वरूपानन्दे तारतम्यस्य वक्तुमशक्यत्वान्न मुक्तौ तारत यमित्याह--* मानुषानन्दमिति ?” । एतेन प्रकृता बन्धनिवृत्तिः ( १ ) ० ० ३ ४ ५ २ । ( २) व्र ० ० ॐ । ४ । ५१ ।।