पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवन्मुक्तयुपपत्तिः । तच्छक्तिनाशमात्रेण मुक्तोऽयं व्यपदिश्यते । अतोऽन्ते सर्वशक्त्याढ्या सर्वाविद्या निवर्तते ॥ ५०॥ भूयश्चान्ते विश्वमायानिवृत्तिरिति च श्रुतेः । अतो लेशानुवृत्तेः स्याज्जीवन्मुक्तिप्रसाधनं ॥ ५१ ॥ यडाऽज्ञानस्य या सूक्ष्मावस्था सा लेशशब्दिता । तन्नाशेपि न सा नष्टा ततो देहादिकस्थितिः ॥ ५२ ॥ यागे गतेपि यागस्य सूक्ष्मापूर्व यथेष्यते । तथाऽज्ञाने गते सूक्ष्मा देहाद्याभाससाधिका ॥ ५३ ॥ तस्मात्फले प्रवृत्तस्य यागादेः शक्तिमात्रकं ।

२३३ नन्वविद्यायां सत्यां कथं मुक्त इति व्यपदेश इतेिचेत्तत्राह

  • तदिति ? ॥ ५० ॥ ननु लेशस्थितौ कर्मानुवृत्ति: तदनुवृत्तौ च

शानप्रतिबन्धेन लेशस्थितिरित्यन्योन्याश्रय इत्याशङ्कयाह-* भूय इति * । एतदुक्त भवति न तावज्ज्ञप्तावन्योन्याश्रयः भूयश्धान्ते इत्यादिश्रुतेरेव लेशानुवृत्तेरवगतत्वातू नापि स्थितौ एककालीनत्वेन दोषाभावादिति तथाच लेशानुवृत्तिपक्षेोऽपि साधीयानिति भावः ॥ ५१ ॥ पक्षान्तरेण समाधत्ते -' यद्वरात ॥ ५२ ॥ नियमपू वैकल्पनापूर्वतन्त्रसिद्धत्वादित्याह-* यागाइतेि ' ॥ ५३॥ तत्र वातकवचनमाह -“ तस्मादिति ?' ॥ ५४ ॥ तथाच यागे ग तेपि यागसूक्ष्मावस्थारूपमपूर्व यागसाधनतानिर्वाहकमङ्गीक्रियते तथा अज्ञाने गतेपि तत्सूक्ष्मावस्थारूपो लेशो देहादिप्रतीत्यनुकूलः