पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ सव्याख्याद्वैतसिद्धिसिद्धान्तमारे । [४ परिच्छेदे इन्द्रो मायाभिरीयेत पुरुरूप इति श्रुतेः । अनेकाकारता बुडाऽविद्यायास्तत्तथेष्यते ॥ ४५ ॥ यथा व्यक्तिनिवृत्तौ स्याज्जातेरप्यनुवर्तनम् ॥ ४६ ॥ अनेकशक्तिकाविद्या तात्विकत्वभ्रमावहा । प्रपञ्चे तत्त्वबोधेन सा निवृत्ता यदा भवेत ।। ४७ ।। अर्थक्रियासमर्थित्वसम्पादनकरीह या । प्रारब्धसमकालेन तत्वज्ञानेन नाशिता ॥ ४८ ॥ अपरोक्षभ्रमाभासयोग्यार्थाभासदायिनी । साऽनुवृत्ताऽस्ति तच्छक्यानोक्तदोषोऽवकाशभाक्॥४९॥ त्याऽवगनत्याह-“ इन्द्र इति ' ॥ ४५ ॥ ननु कथमाकारिनिवृ ' तावाकारानुवृतिारिति तत्राह--* स्यादिति ? ? ॥ ४६ ॥ ननु को यमाकारो नाम जातिव शक्तयादिरुपो धर्मो वा सुवर्णकुण्डलादिव दवस्थाविशेषो वा . नाद्यौ तयोर्देहादिभ्रमोपादानत्वे अविद्यात्वापा तात् अनुपादानत्व च उपादानान्तराभावेन देहादिभ्रमेोत्पत्ययोगातू आत्मान्यत्वेन ज्ञाननिवत्यैत्वेन चाविद्यातत्कार्यन्यतरत्वाचश्यम्भा वेनाज्ञानेन निवृत्ते स्थित्ययोगाच्च अवस्थावन्तं विना अवस्थाया: स्थि त्ययोगादित्याशङ्कानेकशक्तिमदविद्यायाः प्रपञ्चे पारमार्थिकत्वादिः भ्रमहेतुशक्तः प्रपञ्चे अर्थक्रियासमर्थत्वसम्पादकशक्तश्च प्रारब्धक मैसमकालीनेन तत्वसाक्षात्कारेण निवृत्तात्रप्यपरोक्षप्रतिभासयो याथीभासजनिकायाः शक्तरनुवृत्ते: तद्वती अविद्यापि तिष्ठत्येवेति नोक्तदोषावकाश इत्यभिप्रेत्याह-“अनेकशक्तिकेति' त्रिभिः ॥ ४७. ॥ ४८ ॥ ४९ ॥