पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्यालेशानुवृत्या बाधितानुवृत्तिनिरूपणम । २३१ यत्र यद्यद्यथा दृष्टं तत्तथेत्यवगम्यताम् ॥ ४० ॥ जीवन्मुक्तिदशायां स्वानन्दस्फूर्तिरभीष्टभाक् । तत्वे ज्ञातेऽनुवृत्तस्तु बाधितस्यापि सम्भवात् ॥ ४१ ॥ द्विचन्द्रादिभ्रमे यद्वदोषादेवानुवर्तनम् । प्रतिबन्धकसत्वेन तथाऽत्राप्यनुवर्तनम् ॥ ४२ ॥ ज्ञानानिवत्र्यदोषस्य प्रारब्धाख्यस्य कर्मणः । अत्रापि सम्भवाज्जीवन्मुक्तिः सिद्धाति तद्विदः ॥ ४३ ॥ यद्दाऽस्त्वविद्यालेशानुवृत्या देहादिकस्थितिः । आकारस्यैव वेदान्ते लेशशब्दार्थता मता ॥ ४४ ॥ तथात्वमित्यर्थः ॥ ४० ॥ आनन्दस्फूत्र्यापादानै जीवन्मुक्तिदशाया मिष्टमेवेत्याह-“ जीवन्मुक्तीति ' ॥ ४१ ॥ बाधितानु म्भवं दृष्टान्तेन सम्भावयति-* द्विचन्द्रेति ? । तत्वे झाते द्विचन्द्रादिवद्दोषाद्वाधितानुवृत्तिसम्भवोऽस्तीत्यर्थ ॥ ४२ ॥ ननु त श्रेवात्र ज्ञानानिवत्यदोषाभावेन वैषम्यमित्याशङ्कयाह-“ज्ञानेति'। यावत्प्रतिबन्धकसत्वं ज्ञानानिवत्र्यस्य दोषस्यात्रापि सम्भवात रस वैज्ञानानिवर्यस्य तस्य कुत्राप्यसंप्रतिपत्तेः तदुक्त * न हि जात्यैव क श्चिद्दोषोऽस्तीति' तात्पर्यार्थ: ॥ ४३ ॥ पक्षान्तरमाह -* यद्वेति । ननु लेशो नावथवः अज्ञानस्य निरवयवत्वादतएवाविद्या दग्धपटन्यायेन तावतिष्ठतीत्यपि निरस्तं निरवयवे तन्न्यायासम्भवादितिचेन्नाकारस्यैव लेशशब्दार्थत्वादि स्याह-*अाकारस्येंवते' ॥ ४४ ॥ अनेकाकारता अज्ञानस्यश्रु