पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिन्मात्रस्य मोक्षभागित्वोपपत्तिः । दुःखस्य कल्पितत्वेन तद्धेदः किं न कल्पितः । ततुल्ययोगक्षेमत्वाद्वस्तुत्वान्न मे क्षतिः ॥ ३० ॥ दुःखाभावस्य चिढूपानतिरेकेण वस्तुतः । आत्माभिन्नसुखस्फूत्यै वाऽस्थापि स्फुरणं भवेत् ॥३१॥ तस्माचित्स्वप्रकाशात्माभिन्न सुखमखण्डितम् । पुमर्थोस्त्यहमर्थीत्मचिदंशस्यैव सम्मतः ॥ ३२ ।। तचापि जीवन्मुक्तानां सिद्धं स्वानुभवेन हि । तत्वज्ञानेन विध्वस्ताविद्यो जीवद्विमुक्तिभाक् ॥ ३३ ॥ अविद्यायां विनष्टायामपि प्रारब्धकर्मणा । देहादिप्रतिभालोऽनुवृत्त्या स्याद्धराधितस्य च ॥ ३४ ॥ निवृत्तसर्पविभ्रान्तेर्भयकम्पानुवृत्तिवत् । दण्डसंयोगनाशेपि चक्रस्य भ्रमणं यथा ॥ ३५ ॥ । दु:खाद्रेदे अपसिद्धान्तः अभेदेत्वपुमथैतेत्याशङ्कयाह-* दुःस्व स्यात दुःखाभावस्यास्फुरणादपुमर्थतंत्याशङ्काह-“दुःखाभावस्येति ॥ ३१ ॥ फलितमुपसंहरति-“ तस्मादिति ॥३२॥ ॥ विन्मात्रअस्य मोक्षभागित्वोपपत्तिः ॥ तत्सुखं जीवन्मुक्तानामनुभवसिद्धमित्याह-“तचेति'। जीव न्मुक्तं लक्षयति-“तत्त्वज्ञानेनेति ॥३३॥ ननु तत्त्वज्ञानादबिद्याः नाशे सद्यः शरीरपातापत्तिरित्याशङ्कयाह-“अविद्यायामिति' । ॥ ३४ ॥ उक्तमर्थ दृष्टान्ताभ्यां द्रढयति-* निवृत्तेति ? ॥ ३५ ॥ {