पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [३ परिच्छेदे दशमोऽस्मीति विज्ञानं स्यादन्धस्य तमस्यपि ॥५७॥ यं शाब्दं बोधमादाय यस्य बोद्धत्वमीक्ष्यते । तत्साक्षात्त्वमभिन्नार्थावगाहित्वनिमित्तकं ॥ ५८ ॥ बोद्रभिन्नार्थकाच्छब्दाद्भिन्नत्वे सति तन्त्रता । प्रत्यक्षेकान्तर्भावस्याध्यक्षधीकरणत्वगा ॥ ५९ ॥ तन्त्वौपनिषदश्रुत्या प्रमाणं तद्वितश्रुतिः । इति । ननु तत्रापीन्द्रियमेव करणं शब्दस्तत्सहकारीत्याशङ्कयाह

  • दशमोऽस्मीति ?' । कचिद्बहलतमे तमसि लोचनहीनस्यापि

तद्वाक्यादपरोक्षभ्रमनिवर्तकस्य दशमोऽस्मीत्यपरोक्षज्ञानस्य दर्श नात् यत्रापीन्द्रियसद्भावस्तत्रापि तदप्रयोजकमेवेति तात्पर्यम ॥ ५७॥ नन्वेवमपि शब्दस्यापरोक्षज्ञानजनकत्वं किं स्वाभाविकमुतापरोक्ष विषयनिमित्तक नाद्योऽतिप्रसङ्गातू न द्वितीयः जीवाः परमात्मनो न भिद्यन्ते आत्मत्वादित्यादिना जायमानानुमिते: श्रवणात प्रागा पाततो वेदान्तजन्याया भाषाप्रबन्धजन्याया अनधीतवेदान्तज न्यायाश्च प्रतीतेरापरोक्ष्यापातात् श्रवणनियमादेरनियमादित्याशङ्कद्य यं शाब्दै बोधमादाय यस्य बोद्धृत्वं तत्साक्षात्वं तदभिन्नार्थावगा हित्वनिमित्तकमित्युक्तदोषानवकाशादित्यभिप्रेत्याह--*यमिति ? ॥ ५८ ॥ नन्वेवं प्रत्यक्षान्तर्भावः शब्दस्य स्यादिति तत्राह--

  • बोद्रिति " । बोद्धभिन्नार्थकशब्दातिरिक्तत्वे सति प्रत्यक्षप्र

माकरणत्वस्य प्रत्यक्षान्तभवतन्त्रत्वादिति योजना ॥ ५९ ॥ ननु * मनसैवानुद्रष्टव्यमित्यादेरिव मनःकरणताप्रतिपादकस्य प्रकृते शब्दस्य साक्षात्कारकरणत्वमित्याश अभावादनौपदेशिकं ड्राह–“ तमिति ?” । 'पुरुषं पृच्छामीत्यादौ तन्त्र्वेोपनिषदं