पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रवणविधेः प्राधान्याद्युएसँहारनिरूपणम् । । । भवेत्तदन्यासाध्यत्वे सति तत्साध्यभावतः ॥ ६० ॥ यन्मनसा न मनुते इति श्रुत्या निषिद्धयते । भनसः करणत्वं तच्छ्रुतिरन्यपरा ततः ॥ ६१ ॥ यतो वाचो निवर्तन्ते इति शक्त्या न बोध्यते । शब्देन ब्रह्म तन्त्वौपनिषदश्रुतिमानतः ॥ ६२ ॥ तस्मात्तत्वमसीत्यस्यापरोक्षज्ञानहेतुता । सिद्धा युक्ल्यन्वृितश्रुत्या शब्दस्य करणत्वतः ॥ ६३ ॥ अविद्यादिनिवृत्थात्ममोक्षहेतुरखण्डधीः । ततसिन्यै मननाद्यङ्गसंयुतं श्रवणं श्रुतेः ॥ ६४ ॥ २१७ तत्र साधुरितेि तदन्यासाध्यत्वे सति तत्साध्थत्वरूपस्साध्वर्थवि हिततद्धितंश्रुत्या एव मानत्वादित्यर्थः ॥ ६० ॥ ननु मनसः करण त्वेऽप्यौपनिषद्त्वस्य निदिध्यासनापेक्षिततया ऽन्यथासिद्धिरिति तत्राह -- * यन्मनसेति ? ॥ ६१ ॥ ननु 'यतो वाचो निवर्त न्तइति शब्दस्यापि करणत्वानुपपत्तिरिति तत्राह -“यत इति'। औपनिषदत्वश्रुत्यनुसारेण तस्याः शक्तया अबोधकत्वपरत्वादित्य थैः ॥ ६२ ॥ तस्मात्तत्वमस्यादिवाक्यस्यापरोक्षशानजनकत्वादवि घृद्यानिवृत्त्यात्मकमेोक्षसाधनब्रह्मसाक्षात्काराय मननाद्यङ्गकं श्रवण मङ्गि नियमविधिविषय इति सिद्धमित्याह-- - * ** तस्मादिति ?’ ॥ शब्दस्यापरोक्षज्ञानजनकत्वोपपत्तिः ॥ ॥ ६३ ॥ फलितमुपसंहरति-“ अविद्यति ?' सार्द्धन ॥ ६४ ॥