पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दस्यापरोक्षझानजन्धकत्वोपपत्ति: । २१५ मनसैवानुद्रष्टव्यमित्यैकाग्यूपरं धियः । साक्षात्कारैकहेतुत्वं सिद्धं शब्दस्य वेदतः ॥ ५३ ॥ तत्वमस्थादिगीर्जन्यज्ञानवृत्त्यपरोक्षता । अपरोक्षगतात्यन्ताभावस्याप्रतियोगिनी ॥ ५४ ॥ ज्ञानत्ववदितिप्रोक्तं मानमत्रानुमानकं । तत्त्वमस्यादवाक्यस्यापरराक्षज्ञानहतुता ॥ ५५ ॥ न स्याचेदपरोक्षस्य निवृत्तिर्न भ्रमस्य च । न प्रमाकरणत्वेन मनः क्लष्टतं हि कुत्र चित् ॥५६॥ दशमस्त्वमसीत्यादौ शब्दाद्दृष्टाऽपरोक्षधीः । ननु तर्हि * मनसैवानुद्रष्टव्यमित्यादिश्रुतिविरोध इतेि तत्राह--

  • मनसेति ? ॥ ५३ ॥ एवमनुमानमप्यत्रप्रमाणमित्याह-“त-

त्वमिति ?” । अपरोक्षत्वं तत्वमस्यादिवाक्यजन्यज्ञानवृत्ति अप रोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वातू झानत्ववत् न च कर्मका एण्डजन्यवृत्तीत्येवमपि साध्येतेति वाच्यम विपक्षबाधकसत्त्वास अपरोक्षभ्रमनिवृत्तिर्न स्यातू न च मनसैवापरोक्षज्ञानं मनसः कुत्रा प्यसाधारण्येन प्रमाकरणत्वाभावातू आत्मनः स्वप्रकाशत्वात् सु खादीनां साक्षिवेद्यत्वातू मनसः कुत्रापि न प्रमाकरणत्वमिति त्र याणां तात्पयर्थः ॥ ५४ ॥ ५५ ॥ ५६ ॥ ननु शाळेदे अपरोक्षज्ञानजनकत्ववदन्यभ्राक्लप्तमेव मनसि त त्फल्पनीयमित्याशङ्कचैव हि सर्वशस्यैव मनसि कल्प्यत्वेन विशेषाः न च विमतः शब्दो नापरोक्षधीहेतुः शब्दत्वादिति प्रतिसाधनं दश मस्त्वमसोत्यादावेव व्यभिचारादित्यभिप्रेत्य समाधत्ते--* दशम'