पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ सव्याख्याद्वैत्तांस्सांद्धेसिद्धान्तस्सारे । [३ परिच्छेदे तस्माज्ज्ञानविजातीयं श्रवणं ज्ञानसाधनम् ॥ ४६ ॥ अपरोक्षधियो हेतावितिकर्तव्यतात्मकम् । विचाररूपं तत्रैव विधिर्निर्दोष इष्यते ॥ ४७ ॥ तदङगलेवन मननध्याने तत्वावबोधने । विधीयेते ततस्तत्वसाक्षात्कारफलावधी ॥ ४८ ॥ प्रमाणमिह तद्वास्य विजज्ञौ तमसः परम् । पारं दर्शयतीत्यादिः शब्दात्साक्षात्कृतौ श्रुतिः ॥ ४९ ॥ सफलं तत्त्वविज्ञानमुपदेशेन सिद्धाति । इत्युक्तं श्रुतिवाक्येऽस्मिस्तथाऽन्यत्रापि तच्छ्रुतम्॥५०॥ वाक्यं वेदान्तविज्ञाननिश्चितार्था इति श्रुतौ । सुशब्देनापरोक्षोक्तिः विशब्दाद्दाढमीरितम् ॥ ५१ ॥ शब्दादेवापरोक्षत्वे सिद्धे तत्र न बाधकम् । उपदेशातिरिक्तस्य न हेतुत्वं श्रुतौ श्रुतम् ॥ ५२ ॥ संहरति-“ तद्देवांमेमांते ? ' त्रिभिः ॥ ४६ ॥ ४७ ॥ ४८ ॥ ॥ शानस्य पुरुषतन्त्रताभङ्गः ॥ ननु कथमपरोक्षज्ञानजनकत्वं शब्दस्य मानाभावादिति तत्राह --

  • प्रमाणमिति'।'तद्धास्य विजौ तमसः पारं दर्शयनी'त्याद: 'वे

दान्तविज्ञानसुनिश्चितार्था'इत्यादेश्च मानत्वात् पूर्ववाक्ये फलजन कापरोक्षज्ञानस्योपदेशमात्रसाध्यत्वोक्तं: द्वितीयश्रुतौ शाब्दज्ञानस्य विपदेन विशेषविषयत्वस्य लाभात सुपदनापरोक्षत्वोक्तः न च त्रि जज्ञावित्यादेः परंक्षज्ञानेनापि चरितार्थता ‘तमसः पारं दर्शयती' त्युत्तरवाक्यस्वरसेनापरोक्षज्ञानपरत्वसिद्ध: न च ग्रामभागपदे ष्टरि ग्रामं दर्शयतीतिवत्परम्परया प्रयोजकनयोपचारः साक्षात्स्सा धनत्वे बाधकाभावेन तस्यावान्याय्यत्वातू उपदेशातिरिक्तकारणस्य नारदसनत्कुमाराख्यायिकायामप्रतीतेश्धति चतुर्णा समुदितोर्थः ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥