पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञानस्यापुंतन्त्रत्वेनाविधेयत्वोपपत्तिः । न बुभुत्साप्रयत्नाभ्यां ज्ञानं साध्यतया मतं । ताभ्यां विषयवैमुख्यमेव साध्यतया मतं ॥ ४३ ॥ ज्ञानसाधनमात्रे तदन्वयादेरुपक्षयात् । न ज्ञाने कृतिसाध्यत्वं वक्तुं शक्यं कथं चन ॥४४॥ ज्ञान वस्तुप्रमायत पुन्तन्त्र ज्ञानसाधनम् । ज्ञाने दृष्टो विधिज्ञानसाधने स नियम्यते ॥ ४५ ॥ तदेवं श्रवणस्याऽपि ज्ञानत्वेन विधेयता । विशदयति-“ न बुभुत्सेति ? ॥ ४३ ॥ ननु यथा दुर्गन्धाः दिज्ञानस्येच्छाविषयत्वाभावेऽपि ब्रह्मज्ञानस्य तद्विषयत्वं यथा वा प र्वतादिज्ञानस्य नयनोन्मीलने सति प्रयत्नान्तरनिरपेक्षत्वेऽपि धुवा रुन्धत्यादिज्ञाने तत्सापेक्षत्वं तथाऽतिस्लूक्ष्मब्रह्मज्ञानस्येच्छाप्रयदन्नसाध्य त्वसम्भवोऽस्त्वित्याशङ्कयाह-* ज्ञानेति ? । प्रामाणिकदृष्टवि जातीयकिञ्चिद्धर्मदर्शनेनाप्रामाणिकवैजात्यस्य कल्पयितुमशक्यत्वात् प्रयत्नान्वयव्यतिरेकयोश्च ज्ञानसाधनजनने उपक्षीणतया ध्रुवारुन्ध त्यादिनिदर्शनस्याऽन्यथास्पिद्धतया तन्न्यायेन ब्रह्मझाने कृतिसाध्य त्वस्य वक्तुमशक्यत्वान्न ज्ञान तथात्वमित्यर्थः ॥ ४४ ॥ ननुशास्रार्थज्ञानस्य नियमेन पुन्तन्त्रत्वदर्शनाङ्करह्मणश्च शास्रा र्थत्वात्तज्ज्ञानस्य पुंतन्त्रत्वं स्यादित्याशङ्का तत्रापि इज्ञानसाधनस्यैव पुंतन्त्रत्वान्मैवमित्याह-* ज्ञानमिति ? ॥ ४५ ॥ फलितमुप __