पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ ३ परिच्छेदे विधिः स्यान्निर्गुणैकात्म्यज्ञाने नास्ति कथं चन । सक्ष्मार्थगोचरं ध्यानं तत्साक्षात्कारकारणं ॥ ४० ॥ दृष्टं तत्राप्यपर्वत्वाभावान्न विधिरिष्यते । तत्र स श्रूयमाणोऽपि कुण्ठीभावं भजेद्विधिः ॥ ४१ ॥ कृतिसाध्यत्वरूपस्य स्वर्गादविव तद्विधेः । प्रयोजकस्य तज्ज्ञानेऽभावादेव न तद्विधिः ॥ ४२ ॥ विचारोपि तेन रूपेण तद्वाक्यार्थज्ञानं प्रत्यप्राप्तसाधनतासिद्धये अपूर्वविध्यन्तरकल्पनापतेरतः श्रवणादीनां निर्गुणविषयतया सगुण विषयत्वाभावान्नापूर्वविधित्वं सूक्ष्मार्थगोचरनिदिध्यासनस्य तादृ शार्थविषयकसाक्षात्कारहेतुताया दृष्टत्वनापूर्वत्वाभावाश्च न तत्रापि विधि स्तत्र श्रूयमाणलिङादेः शिलातलप्रयुक्तक्षुरतैक्षण्यवत् कुण्ठी भावादिति भ्रयाणां तात्पर्यार्थ: ॥ ३९ ॥ ४० ॥ ४१ ॥ नन्चाज्यावक्षण्णवत्तस्मात्पश्येत नित्यशा' इत्यादिना ज्ञानस्यापेि विधानं दृष्टमिति तत्राष्ट्र-* कृतीतेि । तत्र तद्धेत्विन्द्रिय संप्रयोगादेर्विधेयत्वान्न झाने विधिः । ननु साक्षात्कृतिसाध्यत्वस्ये न्द्रियसम्प्रयोगेप्यभावादिन्द्रियनिष्ठक्रियाद्धारा परम्परया कृतिसा श्रयत्वस्य ज्ञानेऽपि सम्भवादनिच्छतो दुर्गन्धादिशानबत्तू अनिष्टसम्प्र योगस्यापि दर्शनाच ज्ञानसाम्यं सम्प्रयोगस्यत्याशङ्का खर्गादाविव खेच्छाधीन्नकृतिसाध्यत्वस्य विधेयताप्रयोजकस्य ज्ञानेऽभावात्सम्प्रयो गस्य तु तद्वैपरीत्येन विशेषान्न ज्ञानसाम्यमित्याह-* कृतिसा ध्यत्वेतेि ? । तथा चानभिमतविषयवैमुख्यस्यैवं बुभुत्साप्रयता साध्यंतया ज्ञानं प्रति तयोरञ्जनकत्वमिति भावः ॥ ४२ ॥ एतदेव