पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [ ३ परिच्छेदे मननं तु श्रुतार्थस्य युक्तिभिश्चिन्तनं मतं । अङ्गित्वं श्रवणस्यैव तात्पर्यस्यावधारणात् ॥ ३२ ॥ समन्वथाविरोधेोक्तयुक्तिविन्तनमेव वा । श्रवणं मननं चैव क्रमेणास्तु श्रुतीप्सितं ॥ ३३ ॥ समन्वयविचारस्याभ्यर्हितत्वात्तदिष्यते । विचारविधिमूलत्वं मननस्य तु नैव तत् ॥ ३४ ॥ तदेवं श्रवणं लिङ्गं विचाराधीनमागमे । जिज्ञासासूत्रमूलत्वात्स्यात्तात्पर्यावधारणं ॥ ३५ ॥ भामत्यां तु विचारैकाक्षेपकत्वं विधेरपि । मननाभेदोपि नास्तीत्याह -* मननमेिति ? । अर्थक्षिि चारस्येतिकर्तव्यतात्वेपि तात्पर्यवधारणरूपे श्रवणे उक्तस्याङ्गित्व स्थानपायादित्यर्थः ॥ ३२ ॥ यद्वा समन्वयाध्यायोक्ततात्पर्यनिश्धाय कोपक्रमादियुक्तयनुसन्धानं श्रवणं द्वितीयाध्यायोक्तार्थासत्त्वशङ्का निवर्त्तकयुक्तानुसन्धानं मननमित्याह -* समन्वयेति ? ॥३३॥ ननु जिज्ञासासूत्रस्यांशे मननविधिमूलत्वापात इत्याशङ्का समन्वयो क्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वस्यैव वक्तव्यत्वोत्क्तर्नेतर रस्येत्याह-“ समन्वयेति ॥ ३४ ॥ फलितमुपसंहरातेि

  • तदेवमिति ” ॥ ३५ ॥

॥ जिज्ञासान्सूत्रम्य श्रवणविधिमाक्षमूलत्वोपपादनम् ॥ वाचस्पतिमतमाह-“भामत्यामिति” । अध्ययनविधेरेवार्थ वगमपर्यन्तत्वात् काण्ड्द्धग्रविचाराझेपकत्वं श्रवणादिषु च न को