पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रवणविधिजिज्ञासासूत्रयोलमूलिभावोपपत्तिः । जिज्ञासासूत्रमूलं स्याद्वेदान्तश्रवणे विधिः । अधीतवेदपुंसोऽस्ति ज्ञानमांपाततो यतः ॥ २९ ॥ नात्रान्योन्याश्रयापातोप्यधिकारिविशेषणे । समानविषयत्वेऽपि तयोः स्यान्मूलमूलिता ॥ ३० ॥ श्रवणाक्षिप्ततात्पर्यग्राहकं लिङ्गमागमे । तदादाय तयोस्तुल्यविषयत्वस्य सम्भवः ॥ ३१ ॥ २०९ एवं विचारविधायकःश्रवणविधिरेव जिज्ञासास्त्रमूलमित्याह--

  • जिज्ञासेति ” सार्द्धन । ननु विचारविधौ श्रवणसाध्यपरो

क्षज्ञानाधीनाया अपरोक्षज्ञानकामनाया अधिकारिविशेषणत्वाङ्गी कारेरणान्योन्याश्रयापात इत्याशङ्काधीतवेदस्य विदितपदपदार्थ जायमानपरराक्षझान्नाधानापरराक्षज्ञानकामनाया

  • अधीतेति ? ननु जिज्ञासासूत्रोक्तो विचारस्तत्वनिर्णायकन्या

यानुसन्धानरूपः अन्यथा यायग्रथनात्मकशास्त्रारम्भसिद्धये त त्कर्तव्यतोत्ययुक्तः इतरस्य वेदेतिकर्तव्यतानुपपत्तश्च श्रवणं च नोक्तन्यायानुसन्धानरूपं मननाभेदप्रसङ्गातू अतो न श्रवणविधि जिशासास्त्रयोर्मूलभूलिभाव इत्याशङ्कयाह-* समानेति ? । जिज्ञासासूत्रस्य श्रवणविधिसमानविष्यतया भूलभूलिभावाभावे ऽपि श्रवणविधिविषयशक्तितात्पर्यावधारणात्मकृश्रवणाक्षिप्तोपक्रमो पसंहारादितात्पर्यलिङ्गविचारमादाय समानविषयत्वसम्भवेन त दुपपत्तेरिति सार्द्धयोजना ॥ २९ ॥ ३० ॥ ३१ ॥ २७