पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रवणादेः क्रियात्वन विधेयत्वोपपत्तिः । २०७ वेदान्तश्रवणादीनां पृत्यै नियम इष्यते ॥ १८ ॥ अस्ति वेदान्ततात्पर्यनिर्णयाय स्मृतेरपि । अपेक्षा तद्विचारस्य पुंदेोषक्षयकारिता ॥ १९ ॥ तथापि ब्रह्मतत्वैक्यज्ञानवेदान्तमानते । नापेक्षाऽस्ति पुराणादेः श्रुतेः स्वातन्त्र्यमत्र हि ॥२०॥ नियमादृष्टसाध्यस्य व्यावल्र्यस्यापि सम्भवात् । श्रवणादेर्नियमनं सर्वथैवोपपद्यते ॥ २१ ॥ श्रवणं शक्तितात्पर्यावधारणमिहेष्यते । ॥ १८ ॥ १९ ॥ २० ॥ फलितमुपसंहरति-“ नियमेति ' ॥२१॥ ॥ विवरणोच्क्तश्रवणनियमोपपत्तिः ॥ ननु किमिदं श्रवणं नाम शक्ति तात्पर्यावधारणं वा, तद्विशिष्टशब्दा वधारणं वा, तात्पर्यप्रमापकलिङ्गावधारणं वा, आगमाचार्योपदेशज न्यज्ञानं वा, नाद्य: अवाच्ये ब्रह्मणि शक्तयसम्भवातू तात्पर्यमपि न ता वदापातधीजन्यस्य विचारनिवत्र्यस्य संशयस्य धर्मिणि तस्य प्रागेव अन्यथा विचारानन्तरमपि संशयादिप्रसङ्गात् नापि संशयधर्मिगतप्र कारविशेषे तद्विशिष्ट तदुपलक्षिते वा, अखण्डार्थताहानेः अवधारणस्य ज्ञानत्वेन विधेयत्वस्य त्वयाऽनङ्गीकाराश्च अत• एव न द्वितीयादि, नापि गुरुमुखाद्वेदान्तानां ब्रह्मणि संयोजनं श्रवणं तस्याऽऽद्यपक्षानति रेकातू नापि वाक्यधिशेषप्रयोगरूपवादकथा श्रवणं तत्र श्रवणप दाप्रयोगातू अत एव मनननिदिध्यासनयोरपि न विधिस्तयोरपि इज्ञानानतिरेकादिति चेन्मैवमाद्यपक्षस्यैव क्षोदसहत्वादित्याह--

  • श्रवणांमेांते ' । न च तत्र शक्तधसम्भवं दोषः शुद्धे श

क्तयसम्भवेऽपि विशिष्टशक्तिस्तद्धेोधोपयोगिन्या अवधारणायाः स