पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५४ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेद ततः परं न भेदोऽस्ति भेदहेतोरभावतः ॥ ७९ ॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।। ८० ॥ क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत । एवं श्रुतिस्मृतीनां स्युर्गिरोमानं सहस्रशः ॥ ८१ ॥ तत्त्वतो नैव भिद्यन्ते जीवास्ते परमात्मनः । परमात्मवदेवैते आत्मत्वादिति माऽनुमा ॥ ८२ ॥ यद्वा स्वव्यवहारे स्वभिन्नज्ञानानपेक्षता । हेतुरस्त्वथवा तत्राबाध्यत्वं ज्ञातृताऽथवा ॥ ८ ३ ॥ पारमार्थिकभेदस्य सर्वत्रास्सम्भवादपि । जडे न व्यभिचारोऽस्ति तात्विकाभेदसाधने ॥ ८४ ॥ सहस्रशा ऐक्ये प्रमाणमिति सिद्धमिति भावः ॥ ७९ ॥ ८० ॥ ८१ ॥ ॥ अहं ब्रह्मास्मीत्याद्यनेकश्रुतिस्मृत्यर्थकथनम्॥ एवभनुमानमपि तत्र मानमित्याह-* तत्त्वत इतेि ?' । अनु मा अनुमानं मा प्रमाणमित्यर्थः । ननु आत्मत्वजातिरत्र हेतुस्तथा चाभेदे हेतूच्छित्तिरेव प्रतिकूलस्तर्क इति चेन्न तत्वतोभेदेपि व्याव हारिकभेदेनैव व्यावहारिकजातेरनुच्छेदोपपत्तेरिति भावः ॥ ८२ ॥ खव्यवहारे खभिन्नज्ञानानपेक्षत्वं वा हेतु: तवापि जीवस्य खा भिन्ननित्यज्ञानस्याबाध्यव्यवहारविषयत्वातू अबाध्यत्वं हेतुः ज्ञातृ त्वादित्यप्यत्र हेतुः जीवे उपधेयान्तःकरणोपहितवृत्तस्तस्यासिद्धे रभावादित्यभिप्रेत्याह-* यद्वेति द्वाभ्यां ॥८३॥ ८४ ॥ भेदो