पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऐक्यै श्रुतिप्रमाणोपन्यास: । द्वैतस्य भयहेतुत्वं स्पष्टमाह श्रुतिः स्वयम् ॥ ७५ ॥ अल्पमप्यन्तरं कुर्वन्भयं यातीति वेदगीः । भेदस्य निन्दनादैक्ये प्रामाण्यं भजते स्फुटं ॥ ७६ ॥ सर्वभूतेषु गूढोऽयं देव एक इति श्रुतिः । केवले निर्गुणे शुद्धे मानमद्वैतवस्तुनि ॥ ७७ ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चव दृश्यत जलचन्द्रवत ॥ ७८ ॥ यावन्मोहं तु भेदः स्याज्जीवस्य च परस्य च । ति'श्रुतेः सामान्यतो द्वितीयमात्रदर्शनस्यैव भयहेतुत्वातू विशेषक ल्पनायोगात ‘एकाकी बिभेतीति'पूर्ववाक्ये परमार्थदर्शनरहितस्य तन्निमित्तभयसम्भवात् एकाकी बिभेतीत्युक्त उत्तरवाक्ये तस्मा देकाकी न रमते'इत्यत्र इष्टसंयोगजन्यरतेरेकाकिन्यभावात् एका किनो रतिर्नास्तीत्युक्त ततश्चातत्वशविषयोक्तवाक्यानुसारेण. तत्व झविषयमध्यवाक्यस्य } खार्थसमर्पणेनाप्युपयुक्तत्वात् तद्विरोध्यर्थ परत्वायोगातू ‘य एतस्मिन्नुदरमन्तरं कुरुत अथ तस्य भयं भव तीति भेदनिन्दयाऽप्यभेदसिद्धिरिति द्वयोस्तात्पर्यार्थः ॥ ७५ ॥ ७६ ॥ ‘एको देवः सर्वभूतेषु गूढ' इत्यादिश्रुतिरप्यैक्ये प्रमाणमित्याह

  • सर्वेति ? ॥ ७७ ॥ श्रुत्यन्तरमप्यत्रप्रमाणमित्याह-* एक

एवेति ॥ ७८ ॥ भेदस्याविद्यकत्वे ऐक्यस्य तात्विकत्वे स्मृतिप्र माणमाह--- * यावदिति ?” त्रिभिः । एवं श्रुतिस्मृतिवाक्यानि