पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे ब्रह्मात्मैक्यं प्रमेयोऽत्र सर्ववेदान्तसंग्रहे ॥ ७२ ॥ अन्तर्याम्यमृतोद्येष त आत्मेत्यैक्यतत्परम् । अतोऽन्यदार्तमित्यत्र दृश्यमिथ्यात्वबोधनात् ॥ ७३ ॥ द्वितीयाद्भयमित्यत्र भेदस्याभयहेतुताम् । वहन्ती निन्द्या त्वैक्यं प्रमेयं वदति श्रुतिः ॥ ७४ ॥ यन्मदन्यन्न चास्तीह तत्कस्मान्नु बिभेम्यहम् । चनास्तीत्यभिप्रेत्याह --* अतइति ? ॥ ॥ ७२ नन्वत्राप्यन्तयमिवाक्ये ‘य आत्मनो अन्तरो यमात्मा न वेद यस्यात्मा शरीरं यश्धात्मानमन्तरो यमयतीति पूर्ववाक्येन 'एष त आत्मा अन्तर्याम्यमृत अतोन्यदार्तमित्युत्तरवाक्येन च विरोधः तत्र परमात्मनाऽन्यं चेतनमङ्गीकृत्य तस्यार्तियुक्तत्वेनाखातन्त्र्यस्यै चोक्तरित्याशङ्क पूर्ववाक्यस्यौपाधिकभेदमात्रेणोपपतेः उत्तरवा क्येन न चेतनान्तरस्यार्तियोगो विधीयते किन्त्वेषोन्तर्यामी ते आ त्मति जीवखरूपभूतादन्तर्यामिणोव्यतिरिक्त सर्वे आतै विनश्वर . मिति वा मिथ्येति वा बोधना न्न विरोधशङ्काऽस्तीत्यभिप्रेत्याह--

  • अन्तर्यामीति' ॥ ७३ ॥ ‘द्वितीयाद्वै भयं भवतीतिभेदस्य भ

यहेतुत्वेन निन्दितत्वादप्यभेद् एवोपनिषद्रम्थ इत्याह-* द्विती यादिति *? ॥ ७४ ॥ नन्वस्य विरोधिनः समानाद्भयं भवतीत्येवा थैः लोके तादृशादेव भयदर्शनेन लोकसिद्धानुवादित्वात् पूर्वत्र ‘तस्मादेकाकी बिभेति'उत्तरत्र ‘तस्मादेकाकी न रमते' इति श्रव णादिति शङ्कां श्रुत्यन्तरनिदर्शनेन निरस्यति- * यदिति ?” । ‘यन्मदन्यास्ति कस्मान्नु बिभेमीति’ ‘तत एवास्यं भयं वीयाये