पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकीभावस्य गौणत्वनिरासः । परात्परमुपैतीति ब्रह्मप्राप्तिपरं वचः । अविद्याभ्रान्तिबाधात्स्यादैक्यज्ञाने न सा गतिः॥७०॥ सर्व एकीभवन्तीत्येतदप्यैक्यप्रमापकम् । अज्ञानहेतुकानेकभावं ध्वस्तैकतां गतः ॥ ७१ ॥ अतोऽन्यदार्त नेतीति जडवर्गनिषेधतः । परात्परं पुरुषमुपैति दिव्यमिति न देशान्तरस्थब्रह्मप्राप्त्युक्ति परा तस्याः सगुणोपासनफलत्वेन ब्रह्मविद्याफलत्वासम्भवेन खरू पभूतब्रह्मप्राप्तिपरत्वादित्याह-* परात्परामितेि ? । नन्वद्वैति मते नित्यं ब्रह्मभूतस्या पूर्वब्रह्मभावोक्तिरयुक्तति तत्राह-“ अांवे द्याभ्रान्तीति' । कण्ठगते चामीकरादौ भ्रान्तिनिवृत्तिमात्रेण प्रा प्तप्राप्तिरूपतया फलत्वदर्शनात्तदुक्तिर्युतैवेत्यर्थः ॥ ७० ॥ * परे ऽव्यये सर्व एकीभवन्तीत्येतदप्यभेदे मानमित्याह-“सर्व इति'। ननु गावः सायं गोष्ठे एकीभवन्ति' एकीभूता नृपाः सर्वे ववृषुः पा एड्वं शरैः । कीटो भ्रमरेणैकीभूत इतिस्थानैकमत्यैक्यसादृश्यनिब न्धनैकीभावस्य गोनृपकीटभ्रमरादौ दर्शनात् अत्रापि तैरेव निमिः चैतैर्गण एकीभावः स्यादित्याशङ्का निराचष्टे--' अज्ञानेति ?। मुख्यत्वे सम्भवति गौणत्वस्यायोगात् ब्रौक्यमात्रपरत्वेन सकृदु चरितस्य नानेकार्थपरत्वशङ्कापीत्यर्थ: ॥ ७१ ॥ अनेन ह्येतत्सवै वे देति प्रतिज्ञातस्यैकविज्ञानेन सर्वविज्ञानस्योपपादनार्थ अन्यत्वेन प्र तीतेन जीवेनाभेदबोधनातू अचेतनवर्गस्यातो ऽन्यदातै नेति नेतीति निषेधाध जीवब्रह्माभेद एव वाक्यप्रमेयः हृष्टान्ते तु अभेदस्याविव क्षितत्वातू त्वदुक्तप्रकाराश्रयणे बाधकाभावान्नाद्वैतिमते क्षति: का