पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे। [२ परिच्छेदे सुप्तौ स्वरूपलाभोक्तिर्नत्वात्यन्तिकतत्परा ॥ ६५ ॥ एवमन्यत्र वेदान्ते भेद्गन्धोऽपि नेष्यते । ऐक्ये षड्विधतात्पर्यलिङ्गसद्भावतः श्रुतेः ॥ ६६ ॥ ब्रह्म वा इदमित्याद्यारण्यकस्थगिरामपि । ऐक्ये प्रमापकत्व ता न भेदं लवताऽबुवन् ।। ६७ ।। स यश्चायं नरे यश्चासावादित्ये स एककः । इति गीरैक्यमेवाहोपाधिभेदनिवारणात् ॥ ६८ ॥ स योह परमं ब्रह्म वेदेत्यादि तु मुण्डके। ब्रह्रैक्यपरमेवेति वाक्यं भेदभ्रमापहं ॥ ६९ ॥ त्यर्थः ॥ ६५ ॥ उक्तन्यायमन्येषु श्रुतिवाक्येष्वतिदिशति-* एव मिति ? ॥ ६६ ॥ ॥ तत्त्वमसिवाक्यार्थनिरूपणम् ।

अभास्मात् तदात्मानमेवावेदहं ब्रह्मास्मीति ' वाक्यस्थानुपासनाप्रकरणस्थ नया अभेदप्रमापकत्वमेधेवस्याह--* ब्रह्माता ? | ता गिरोल बतों शतोपि कटाक्षेणापि भेदं न वदन्तीत्यर्थः ॥६७॥ 'स(१) यश्चायं पुरुष । यश्वासावादित्ये । स एक ' इति वाक्यस्यापि नान्तर्याम्यैक्यप रता ' ब्रह्मावदामात पर ' मित्यादना शुद्धस्य ब्रह्मणः प्राकृततया तस्मिन्नुपाधिकृतभेदस्य तात्विकत्वप्रसक्तौ तन्निराकरणार्थत्वेन ऐ क्योपदेशोपपत्तेरित्यभिप्रेत्याह -* स इति ' ॥ ६८ ॥ मुण्डकेपि तदैक्यपरं वाक्यमुदाहरति-* स य इति ' ॥ ६९ ॥ ( १ ) तै० उ • २