पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शकुनिसूत्रदृष्टान्तादेरन्यथोपपत्तिः । तात्विके बाधकाभावादभेदे ब्रह्मजीवयोः ॥ ६३ ॥ वेदे शकुनिदृष्टान्ते भेदः सन्नन्यथेष्यते । स्वमपीत इति श्रुत्या स्वरूपे स्वार्थ ईरितः ॥ ६४ ॥ प्राज्ञेन सम्परिष्वक्त इति विक्षेपहानितः । १८९ योगः अभेदस्तु भेदबोधकाभावादत्र तात्विक इत्येव विशेष इतेि ॥ ६३ ॥ ननु * स आत्मा तत्वमसी'त्यत्रातत्वमसीति पदच्छेदः शब्दो नित्य इत्यत्रानित्य इति पदच्छेदो यथा घटदृष्टान्तानुसारेण त थाऽत्रापि शकुनिसूत्रादिदृष्टान्तानुसारादिति चेन्नेत्याह-“ वेद इतेि ?” । 'स यथा शकुनिः सूत्रण प्रबद्ध' इत्यादिदृष्टान्ते विद्य मानोऽपि भेदो नातदिति पदच्छेदप्रयोजक: तं विनैव तदुपपत्तेः तथा हि ज्वरादिरोगग्रस्तस्य तन्निमवकं स्वास्थ्ये विश्रान्तिवत्तू जाग्रत्ख प्रावस्थयो: करणव्यापारजनितश्रमापनुत्तये जीवस्य देवतात्मकख रूपावस्थानमित्यस्मिन्नर्थे शकुनिसूत्रदृष्टान्त इत्यन्यथैवोपपत्तेः * ख मपीतोभवतीत्यत्र स्वशब्दस्य स्वरूपे मुख्यस्यार्थान्तरपरत्वे गौणी लक्षणयोरन्यतरापत्तेः अभेदे योगरूड्योरभावेऽप्युपसर्गप्रकृतिप्रत्य यपर्यालोचनया लब्धखरूपप्राप्तिरूपार्थस्य अभेदे पर्यवसानादिति तात्पर्यार्थः ।। ६४ ॥ ननु * प्राज्ञेनात्मना सम्परिष्वक्त ' इतेि सुषुप्तविषयभेदश्रुत्या त्वन्मतेऽपि भेदपरेण 'सु(१)षुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रेण त्वत्पक्षेपि जागरण इव सुषुप्तावप्याविद्यकजीवब्रह्मभेदखीकारेण च विरोध इति चेन्नेत्याह--* प्राज्ञेनेति । सुप्तो हि जाग्रतूखमाव स्थयोरिव स्फुटतरविक्षेपो नास्तीत्यभिप्रायेण खरूपप्राप्त्युक्तिः नत्वा त्यन्तिकाभेदाभिप्रायेणान्यथा सुषुप्तिमुक्तयोरविशेषापत्तिः स्यादि ( १ ) न । सू० १ ! ३ । ४२ ।