पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ सध्याख्याद्वैतसिद्धिसिद्धान्तसारे । [२ परिच्छेदे स च ब्रह्मानुभूत्यैकागोचरत्वं न चात्ययः ॥ ५३ ॥ जडानां बाध्यरूपत्वान्निःस्वरूपत्वतो ऽसतः । न जीवब्रह्मवत्तत्रानुस्यूताकारसम्भवः ॥ ५४ ॥ नेोपजीव्यविरोधेोत्रेोपजीव्यांशो न बाध्यते । श्रेण ब्रह्मणः शून्येन जडेन च ऐक्यं सुवचं न द्वितीय: तत्वं भवि इयसीति निर्देशापत्या असीति वर्तमाननिर्देशायोगात्तू दशाभेदेन भेदाभदयो: सत्त्वापत्या त्वयाप्यनङ्गीकाराश्च जीवेशयोः स्वातन्त्र्य पारतन्त्र्यादेर्नित्यत्वाश्ध न तृतीय: निर्दोषश्रुतिसाक्षिसिद्धयोर्विरुद्ध धर्मयोर्मिथ्यात्वायेगादित्याशङ्कयाह -* त्यागइतेि ' । विरुद्धा कारस्याविवक्षयव त्यागातू त्यागश्च ब्रह्मानुभवाविषयत्वं न त्वपाय: तस्य चरमसाक्षात्कारसाध्यत्वातू तथा च तचेतदन्ते इवानपेते अपि सार्वश्यासार्चये नाश्रयाभेदविरोधाय अधिवक्षा च प्रधानप्रमेयानि वहायेत्यर्थः ॥ ५३ ।। असद्धेत्यादौ सर्वं खल्विदं ब्रहोत्यादौ च शून्यजडैक्यापत्ती इ त्याह--* जडानामेिति ?” । शून्यसतोः चिज्जडयोर्वा विरुद्धा कारपरित्यागेन जीवब्रह्मणोरेिवानुस्यूतस्याकारस्याभावातू असतो नि:स्वरुपत्वाज्जडस्य बाध्यस्वरूपत्वान्न तदैक्यापत्तिरित्यर्थः ॥ ५४ ॥ ॥ जीवब्रह्माभेदेप्रमाणम् ॥ नन्वैक्यश्रुत्या प्रत्यक्षसिद्ध जीवमनूद्य ब्रह्मत्वं वा बोधनीयं श्रुति सिद्धं ब्रह्मानूद्य तस्य जीवत्वं वा उभयानुवादेनाभेदो वा विधेय: सर्वथाऽप्युपजीव्यविरोधात्रैक्ये प्रामाण्यं प्रत्यक्षेण जीवस्य ब्रह्म भिन्नत्वेन श्रुत्या च सर्वशत्वादिमब्रह्मग्राहिण्या तद्धीनत्वेनानु भूयमानाजीवाद्भिन्नत्वेन ब्रह्मणो शायमानत्वातू न चानुमानेन ब्र होपस्थितिः तेनापि सर्वज्ञत्वादिना ब्रह्मणो विषयीकरणेनोपजीव्य विरोधताद्वस्थ्यादितिचेन्मैवमित्याहः -* नोपजीव्येति ? ।